SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ शास्त्रार्थकलोपस्कृतः न चैवं स्तोकः पाक इत्यादावपि द्वितोयाप्रसङ्गस्तत्रापि स्तोकादेः क्रियायामेघ विशेषणत्वात् भावकतां प्रयोगसाधुत्वमात्रार्थकतया धातुनैव तत्र पाकादिप्रतिपादनादिति वाच्यम ? क्रियापदम्य तत्र सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात्। स्तोकं स्थीयते इत्यादी आख्यातस्यापि वर्तमानत्वार्थकतया सार्थकत्वात् । न च वर्तमानत्वाद्यविवक्षायां द्वितीयानुपपत्तिरिति वान्यम् ? वर्तमानस्वादिविवक्षास्थल इव अर्थबोधकप्रयोजकाकांक्षाशालित्वेनैव तदविवक्षास्थलेऽपि भावास्यातस्यार्थवत्त्वात । वागितिरूपश्रुत्या च्छन्दोमनादिरापतेदिति वाच्यम् ? अनियतलिङ्गस्थले"ततोऽन्यत्रापि दृश्यत"इति फलितार्थक्रियाविशेषणानाङ्कर्मत्वमेकत्वन्नपुंसकत्वञ्चेत्यस्य प्रवृत्तिस्वीकारेण “गीर्वाग्वाणी सरस्वती' तिकोशबलेन "स्त्रियां क्तिनि" त्यधिकारे "क्विब्वची" तिवार्तिकेन तत्सहायकेन च वाकशब्दस्य स्त्रीलिङ्गे नियतत्वसौष्ठवात् । ननु स्तोकापाक इत्यादावपि पचधातोःपाकरूपोऽर्थस्तोकपदार्थस्य च तत्रैवान्वयेन क्रियाविशेषणत्वात्कर्मत्वेन द्वितीयेति तात्पर्यणाह द्वितीयाप्रसङ्ग इति । तदुत्तरम्, क्रियाविशेषणानामितिनियमे क्रियापदस्य सार्थकप्रत्ययान्तधातुवाच्यार्थपरत्वेन घलो भावे विधानेनार्थवाचकप्रत्ययाभावेन कर्मत्वाऽप्रवृत्तेः। स्तोकं स्थीयत इति अकर्मकधातुप्रयोगे भावप्रत्ययेऽपि न दोषः १ वर्तमाने लटो विधानेन तत्र सार्थक प्रत्ययसत्त्वात् । नच वर्तमानत्वाविवक्षायान्दोषः ? वर्तमानबोधकस्वरूपयोग्यतामादायापि सार्थकत्वसिद्धः । अथबोधानुकूलाकांक्षापर्याप्त्यधिकरणीभूतप्रत्ययप्रकृतिभूतधातुवान्यक्रियानिष्ठविशेष्यतानिरूपिताऽभेदसम्बन्धावच्छिन्नकमत्वप्रयोजकपदाद् द्वितीया भवतीतिनियमात् । १ क्रियापदस्य तत्र सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात् । स्तोकं स्थीयत इति-अर्थवोधस्वरूपयोग्यतेति ननु अत्र सार्थकप्रत्ययत्वं यदि भगवदिच्छीयविलक्षणयिषयतावच्छेदकवत्त्वमथवा शक्तिमवृत्तिप्रत्ययत्वव्याप्यधर्मवश्वं वा, सर्वथापि घञःकरणाधिकरणार्थकत्त्वेन सार्थकत्वमापयेतात आकाक्षापर्यन्तानुधौतिम्रन्थकृताम् । पाकादयो न संज्ञावाचकाः रागादयस्तु संज्ञावाचका एव योगरूढा वा । वस्तुतस्तु सामान्यरूपेण धो न निरर्थकत्वमत एव "अकर्तरि च कारके संज्ञायामित्यत्र संज्ञायामिति प्रायिकन्तेन को लाभो भवता लब्ध इत्यादीनां सिद्धिः। गम्धातुसमभित्र्याइतक्तप्रत्ययस्य कालकर्माद्यर्थकत्वेन प्रसिद्धत्वात् भावार्यकक्तप्रत्ययविशिष्टगमधातुतदर्थविशेषणस्तीकादिपदोत्तरन्तु द्वितीयाविभक्तिरेव। अकर्मकधातोः तप्रत्ययस्य न केवलभावार्थमात्रे विधानम् ? भूतकालादिरूपार्थस्य तत्र सत्त्वात् । व्यु०
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy