________________
व्युत्पत्तिवादः केचित्तु धातोरिव घान्तस्यापि पाकादौ शक्तिरुपेयते । अन्यथा सुब्धिभक्त्यर्थसंख्याकर्मत्वादीनां तत्र पाकादावन्वयानुपपत्तेः । प्रकृत्यर्था. न्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तेर्धातूनां च सुविभक्त्यप्रकृ. तित्वात प्रकृत्येकदेशार्थेऽपि प्रत्ययान्वयोगपमे पचन्तं पश्यतीत्यादितः पचमानं पश्यतोत्यादितश्च पाकादौ द्वितीयाद्यर्थ कर्मत्वाद्यन्वयबोधप्र. सङ्गात् ।
एकत्रविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वेनान्वयस्याव्युत्पन्नतया तत्र प्रत्ययार्थविशेषणपाकादेन कर्मत्वे विशेषणतयान्वय इति चेत् ? तथापि पाकादिविशेषणतया सुबर्थसंख्याया अन्वयसंभवात् । यत्र पाककर्तादेर्द्वित्वादिकं बाधितं पाकादेश्च तदवाधितं तत्र पचन्तौं
"स्त्रियां क्तिन्नि"तिसूत्रविहितक्तिन्नादीनां केवलभावमात्रार्थकत्वेन न प्राकृतं सार्थकत्वम अत्र सदमधियः।
नच पाक इत्यादावेकत्वान्वितपाकाद्यर्थविषयकशाब्दबोधस्वरूपयोग्यताम्प्रति घञ्प्रत्ययान्तसमुदायनिष्ठस्वादिसमभिव्याहारःकारणमिति । तस्य घञ्प्रत्ययेऽपि विद्यमानत्वेन घञ्प्रत्ययस्य सार्थकत्वन्दुर्वारमेवेति वाच्यम् ? यद्रूपावच्छिन्ने यद्पाव छिन्नाऽव्यवहितोत्तरत्वमर्थबोधस्वरूपयोग्यताप्रयोजक तद्रूपावच्छिन्नस्य तद्रूपावच्छि नान्तत्वमेव हि सार्थकप्रत्ययान्तत्वमिति तात्पर्य्यात् ।
नच पच घञ् एतदुभयाऽव्यवहितोत्तरत्वं सुत्वावच्छिन्ने विद्यत एवेति पूर्वोक्तस्वा रूपयोग्यताप्रयोजकत्वं समुदाये तयटकघजप्रत्ययेऽपि पच्यव्यवहितोत्तरत्वप्रयोजकत्व निर्वाधमिति वाच्यम् ? समुदायगतप्रयोजकतायाःकेवलविशेषणेऽपि स्वीकारे मानाऽभा वात् ससुदायस्यैव क्लतत्वेन प्रयोजनविरहाच्चेत्यलम् । केचित्त इति--
वदन्तीति सम्बद्धम् । अयमाशयः, यथा धातोःपाकादौ शक्तिस्तथा घअन्त स्याऽपि पाकादौ शक्तिर्विनिगमनाविरहात्। यदि घजन्तशक्तिर्ने स्यात्तदा संख्याकम त्वादीनान्तत्रान्वयो न स्यात् "प्रत्ययानाम्प्रकृत्यान्वितस्वार्थबोधकत्वम्" प्रकृतिप्रत्ययौ सहार्थम्ब्रूतस्तयोःप्रत्ययार्थःप्रधानम्" यथा घटमानयेत्यत्र द्वितीयायास्स्व. प्रकृत्यर्थघटविशिष्टकर्मत्वबोधकत्वम् नतु घटाउनन्वितकर्मत्वबोधकत्वम् । घना व्यव धानेऽपि संख्याकर्मत्वादीनाम्पाके प्रकृत्येकदेशार्थेऽन्वयस्तु वक्तुमशक्यः १ पचन्तम्पश्यतीत्यादौ शत्रा व्यवधानेऽपि द्वितीयार्थकर्मत्वस्य पाकेऽन्वयेनानिष्टाऽपत्तेः । तदेवाह अन्वयबोधप्रसङ्गदिति । एकत्र विशेषणत्वेनेति
ननु पचन्तम्पश्यतीत्यादौ कर्तरि विशेषणत्वेनान्वितस्य पाकस्य कभत्वेन द्वितीया