________________
शास्त्रार्थकलोपस्कृतः पश्यति पचमानौ पश्यतीत्यादिप्रयोगप्रसङ्गस्य दुरित्वात् । धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तत्तद्धातूत्तरप्रत्ययधर्मिककिश्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकतामुरगम्यैतादृशातिप्रसंगवारणे च गौरवात् । ___एवं शोभनं पचनमित्यादी धातुमात्रेण पाकाद्यपस्थितौ च तत्र शोभना दाभेदान्वयबोधानुपपत्तिः, विशेषणविभक्ति सजातीयप्रकृत्यनुपस्थाप्यत्वात् । प्रकृत्येकदेश साधारणताहविभक्तिप्रकृतित्वस्य प्रयोजकत्वे तत्र ल्युडादेरधिकरणपरत्वेऽपि तथाविधान्वयबोधापत्ते ! कस्य चित्प्रतिबन्धकतां कल्पयित्वा तद्वारणे च गौरवात् । न चैवमुपकुम्भापिप्पल्यादिरूपपूर्वपदार्थप्रधानसमासपदाकुम्भलमोपपिप्पल्यद्धादौ विभक्तयर्थान्धयस्य प्रातिपदिकान्तरार्याभे. दान्त्रयस्य चानुपपत्तिः । पूर्वपदस्य समासोत्तरविभक्तयप्रकृतित्वादिति वाच्यम ? तदनुरोधेनैव तत्र कुम्भपिप्पल्यादिपदानामेव कुम्भसमोपपिप्पल्यर्घादा लक्षणायाः पूर्वपदस्य तात्पर्यग्रहमात्रोपयोगितायाश्च स्वीकारात्। थेन साकं विशेषणतया नान्वयः "एकत्र विशेषणत्वेनान्वितस्यान्यत्र विशेषणत्वेन नान्वय” इतिन्यायात् । तथाच कर्मत्वस्य पाके नान्वय इत्याशयेनाह एकत्रेति ।
एवमपि यत्र द्वौ कर्तारौ त्रयो वा पचन्तौ पश्यत इतिप्रयोग इदानीवलसुबर्थसंख्यायाः पाकेऽन्वये शत्रा व्यवधानेऽपि पचन्तौ पश्यतीत्याद्यापद्येत । तदेवाह प्रयोगप्रसंगम्येति ।
ननु प्रत्ययार्थनिष्ठप्रकारतानिरूपितधात्वर्थनिष्ठविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावरिछन्नम्प्रति तत्तद्धातूत्तरप्रत्ययधर्मिककिश्चिदर्थपरत्वज्ञानम्प्रतिबन्धकमिति प्रतिवध्यप्रतिबन्धकभावं प्रकल्प्य शतृप्रत्ययार्थकर्तृरूपार्थपरत्वज्ञानमेव प्रत्ययार्थसंख्यादीनाम्पाकादौ विशेषणतयाऽन्वयबोधप्रतिबन्धकमिति प्रकृत्येकदेशपाके न संख्याया अन्वय इत्याशयेनाह प्रतिबन्धकतेति । तदुत्तरमाह गौरवादिति । तस्माद् धजन्तस्य पाकादौ शक्तिः कार्यवेति । प्रकृत्येकदेशार्थान्वयश्च न स्वीकार्य इत्यभिप्रायः ।।
ननु यथा पाके इत्यत्र घअन्तस्य पाके शक्तिस्तथा पचनमित्यत्रापि ल्युडन्तस्यैव पाके शक्तिर्न तु धातुमात्रस्येति तदेवाह एवमिति । ल्युडन्तस्य यदि पाके शक्तिर्न किन्तु धातुमात्र ण पाकोपस्थितिः पाक इत्यत्र संख्यादीनामन्त्रयानुपपत्तियथा तथा धातुमात्रोपस्थितपाके शोभनपादार्थान्वयो न स्यादेवाऽभेदसम्बन्धेन । तत्र हेतुमाह, अयं हि नियमो विशेष्यविशेषणयोरभेदसम्बन्धेनान्वयबोधम्प्रति सजातीयविभक्त्युप. स्थाप्यत्वं कारणमेवश्च विशेषणविभक्तिसजातीयविभक्तिप्रकृत्युपस्थाप्यत्व विशेष्यस्यापेक्षणीयम् । पाकपदार्थस्यात्र न विभभिप्रकृत्युपस्थाप्यत्वमेवम्पचनमित्यत्र पचनेतिल्युट्प्रत्ययान्तस्यैव विभक्तिप्रकृतित्वेन धातुमात्रस्य पाकोपस्थापकस्य विभक्तिप्रकृतित्वा. ऽभावात् । ल्युटा व्यवधानात इति तात्पय्यम् ।