________________
१००
व्युत्पत्तिवादः वस्तुतस्तु तत्रोत्तरपदार्थविशेषितपूर्वपदार्थसमीपा दौ प्रत्ययार्थान्वय. बोधे तादृशसमस्तपदप्रत्ययपदयोरव्यवहितपूर्वापरीभावोऽध्याकाङ्क्षा । एतत्र प्रातिपदिकान्तरार्थाऽभेदान्वयबोधे समानविभक्तिकयोस्ताद्वशसम. स्तपदपदान्तरयोश्च सममिव्याहारोऽप्याकाङ्क्षा । तथा सत्यतिप्रसङ्गविर हात् ।
धात्वर्थपाकादौ प्रत्ययार्थान्वयबोधे प्रातिपदिकान्तरान्तरार्थाभेदान्वय
ननु प्रत्ययविधाबुद्देश्यतावच्छेदकाक्रान्तत्वम्वचनमित्यत्र प्रत्ययभाग इव धात. भागेऽप्यस्त्येव प्रकृतिप्रकृत्येकदेशोभयसाधारण्येन विशेषणविभक्तिसजातीयविभक्तिप्रकृ. तित्वमेव विशेष्यविशेषणयोरमेदान्वयप्रयोजकम् । एवञ्च धातुभागेऽपि प्रकृतित्वसत्त्वाच्छोभनपदार्थान्वये न किञ्चिद्वाधकमित्याशयेनाह प्रकृत्येकदेशेति । दूषणमाह शोभ. नपदार्थान्वय इष्टोऽपि न स्यात् । अतो ल्युडन्तस्यैव पाके शक्तिः कार्याधिकरणप. दार्थ एव शोभनान्वयो नतु पाकादावित्यभिप्रायः ।
ननु पदान्तरार्थनिष्ठप्रकारतानिरूपितधात्वर्थनिष्ठविशेष्यतासम्बन्धेन शाब्दबुद्धिस्वावच्छिन्नम्प्रति तत्तद्धातत्तरप्रत्ययधर्मिककिञ्चिदर्थपरत्वज्ञानम्प्रतिबन्धकं शोभनपदार्थस्य धात्वर्थपाकादावभेदान्वयेऽधिकरणार्थपरत्वज्ञानम्प्रतिबन्धकमिति । भावल्युटस्तु निरर्थकत्वमेवैवञ्च शोभनपदार्थस्य धात्वर्थपाकेऽन्वये नानुपपत्तिरिति हृदि निधायाह कस्यचिदिति । प्रतिबध्यप्रतिबन्धककल्पनगौरवमित्युत्तरम् । एवञ्च वचनमिति ल्युडन्तसमुदायस्यैव पाके शक्तिरिति तत्त्वं सिद्धम् ।
स्वप्रकृत्यर्थविशिष्टस्वार्थबोधकत्वमेव प्रत्ययानाम् । प्रत्ययाव्यवहितपूर्ववर्तित्वमेव प्रकृतित्वमितिलक्षणे उपकुम्भम् अर्द्धपिप्पली सुन्दरमुपकुम्भम् इत्यादौ विभक्त्यर्थकर्मत्वादीनां सुन्दरादीनामभेदेनान्वयः पूर्वपदार्थेन सह न स्यात् समासोत्तरविभक्तिप्रकृतित्वाऽभावात् इत्याशयेन तदुत्तरमाह नचैवमिति । पूर्वपदस्य तात्पर्य ग्राहकत्वमेवोत्तरपदत्यैव कुम्भादेस्समीपार्द्धादिरूपार्थकत्वात् । एवञ्चान्वये न किश्चिद्वाधकम् । वस्तुतस्त्विति ।
प्रत्ययार्थनिष्टप्रकारतानिरूपितपूर्वपदार्थनिष्ठविशेष्यतासम्बन्धेन शाब्दबोधत्वावच्छिन्नम्प्रति विभक्त यव्यवहितपूर्ववर्तिकुम्भपदाऽव्यवहितपूर्ववर्युपपदज्ञानं कारणम् इत्येवमाकाङ्क्षा । पदार्थान्तरान्वयबोधे तु अभेदसम्बन्धावच्छिन्नसुन्दरत्वाद्यवच्छिन्नप्रकारतानिरूपितसमस्तीपकुम्भादिपदार्थनिष्ठविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छि. न्नम्प्रति समानविभक्तिकयोस्सुन्दरादिपदोपकुम्भादिपदयोस्समभिव्याहार इत्याकासास्वरूपम् । अतिप्रसङ्गस्यार्थात् विशिष्टे समासे शक्तिस्वीकाररूपातिप्रसङ्गस्याऽभावादित्यर्थः ।