________________
शास्त्रार्थ कलोपस्कृतः
१०१
बोधे च ल्युडघञाद्यन्त समुदायप्रत्यययोरव्यवहितपूर्वापरीभावस्य समानविभक्तिकयोस्तादृशसमुदायपदपदान्तरयोः समभिव्याहारस्य चाकाङ्क्षायोपदर्शिताधिकरणार्थं कल्युटूप्रत्ययस्थळीयातिप्रसङ्गस्य
दुरुद्धरतया न
ग
तत्संभवः ।
अथ घञन्तसमुदायस्य पाकाद्यर्थकत्वे घन्नन्तसमुदायस्य संयोगविभागस्त्रादिविशिष्टाबाचकत्वं व्युत्पाद्य संयोगविभागादिपदानां नैमित्तिकसंज्ञास्वनिराकरणं दीधितिकृतां विरुद्धमिति चेत्का क्षतिः ? न हि कस्य चिद्मन्थकृतो विपरीतलेखनं युक्तिबलाद्वस्तुसिद्धौ बाधकम् ।
धावीपाकादात्रिति ।
अयमाशयः- उक्तसमासस्थले विशिष्टशकिं विहाय विलक्षणाकाङ्क्षाज्ञानम्प्रकल्प्यावयोवः प्रदर्शितस्तथा पाक इत्यादावपि विशिष्टे घञन्ते शक्तिर्न कार्य्या किन्तु घञो निरर्थकत्वाद्धातोरेव पाकादौ शक्तिः प्रत्ययार्थीनिष्ठप्रकारतानिरूपितधात्वर्थपाकनिष्ठविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति ल्युङ्घञाद्यन्तसमुदायस्य विभक्तयव्यवहितपूर्ववर्त्तित्वज्ञानं कारणमिति स्वरूपमाकाङ्क्षायाः । पदार्थान्तरत्वा ( सुन्दरत्वा ) वच्छिन्नप्रकारतानिरूपितधात्वर्थपाकादिनिष्ठविशेष्यतासम्बन्धेन शाब्दबुद्धित्वाच्छिन्नम्प्रति ल्युड्ञाद्यन्तसमुदास्य पाक इत्यादेर्विशेषणवाचकसुन्दरादिपदस्य च समानविभक्तिकत्वज्ञानमाकाङ्क्षास्वरूपं कारणम् इत्याशयेनाह धात्वर्थपाकादाविति ।
अभेदसम्बन्धावच्छिन्न
एवम्प्रकारे दोषमाह
यत्राधिकरणार्थको ल्युट् तथाऽप्युक्ताकाङ्क्षाया विद्यमानत्वेन प्रत्ययार्थस्य पदान्तरार्थस्य च धात्वर्थपाकादावेवान्वयापत्तिर्न्न तु प्रत्ययार्थे पाकाधिकरणे, इष्टश्च पाकाधिकरण एवान्वय इति न तत्सम्भवः । एवञ्च पाक इत्यादौ घञाद्यन्तस्यैव पाकादौ शक्तिः कुम्भपदस्योपकुम्भमित्यत्र कुम्भसमीपे लक्षणा तत्र प्रत्ययार्थादीनामन्वये न क्षतिरित्याशयः ।
अथ घञन्तसमुदायस्येति ।
पाक इत्यादिप्रयोगे घञाद्यन्तस्यैव पाकादौ शक्तिरितिस्वीकारे दीधितिग्रन्थविरोधम्प्रदर्शयति । दीधितिकृता प्रचण्डपदार्थविदा संयोगपदस्य घञन्तस्य विभागपदस्य च संयोगत्व विभागत्वविशिष्टवाचकत्वन्नास्तीति तात्पर्येण संयोगविभागादिपदानां नैमित्तिकसंज्ञात्वन्नास्तीत्युक्तम् । डित्थकपित्थाद्या संज्ञा यदृच्छासंज्ञा, घटपटादिकन्तु नैमित्तिकसंज्ञा तत्र घटत्वं पटत्वञ्च प्रवृत्तिनिमित्तम् । विशिष्टबुद्धौ विशेषणज्ञानं कारणम् । घटत्वपरत्वादिकम्प्रवृत्तिनिमित्तीकृत्यैव प्रवृत्तिविधानात् । यस्यास्संशायाः जातिविशिष्टेऽर्थे सङ्केतस्सा नैमित्तिकसंज्ञेत्युच्यते । अत एव शब्दशक्तिप्र० “जात्यव - च्छिन्नसंकेतवती नैमित्तिकी मते" त्युक्तम् । एवञ्च यदि संयोगत्व विभागत्वावच्छिन्ने घञन्तसंयोगविभागादिपदानां शक्तिस्स्यात्तदा संयोगत्वादि प्रवृत्तिनिमित्तीकृत्य