________________
व्युत्पत्तिवादः एकां च यत्र धातुमात्रस्यैव पाकादौ तात्पर्य सत्र तद्विशेषणवाचकपदात् द्वितीयैव, यत्र तु कृदन्तसमुदायस्य पाकादौ तात्पर्य तत्र ताशपदं तथावि. धकृदन्तसमुदायसमानविभक्तिकमेव । तदुक्तं कातन्त्रपरिशिष्टकृता कथं. स्तोकः पाकः ? कृदन्तविशेषणत्वात् । धात्वर्थकाधिकरण्ये तु स्तोकमोदनस्य पाक इति स्यादेवेति वदन्ति । नैमित्तिकसंज्ञात्वं स्यात् । संयोगविभागादिपदानान्तु संयोगविभागत्वावच्छिन्ने शक्ति. रेव नास्त्यन्यथा संयुनक्ति संयुज्यते विभजते इत्यादी संयोगविभागपदाऽभावात्संयोगवि. भागरूपपदार्थयोरुपस्थितिरेव न स्यात् । संयोगविभागरूपार्थोपस्थितिरेव संयुनक्तिसंयोगः विभजते विभाग इत्यादावनुगतस्य धातोरेव लाघवात् संयोगविभागादौ शक्तिस्स्वीका- न तु घनन्तसंयोगविभागपदयोरित्येवं रीत्या घनस्साधुत्वमात्रार्थकत्वेन निरर्थकत्वमेवेति दीधितिकृतामाशयः । संयोगपाकपदयोस्तुल्यत्त्वेन घअन्तत्वेन चेति घञो निरर्यकत्वमिति फलति । इत्याशयेनाह घअन्त समुदायस्येति । उत्तरमाह
मया गदाधरभट्टाचार्येण घअन्तसमुदायस्यैव पाकादौ शक्तिः प्रदर्शिता तत्र दीधितिकृतां ग्रन्थो युक्तिबलरहितो बाधको न भविष्यति । एवञ्च संयोगादिपदानामपि घनन्तशक्तिविशिष्टत्वमेव, अधिकरणार्थकल्युट प्रत्ययस्थले विशेषणीभूतशोभनादिपदार्थस्य पाक एवान्वयस्स्यान्नविष्टेऽधिकरणे इति पूर्वोक्तदोषापाकादौ घअन्तशक्तिरेव गरीयसीत्याशयः ।
ननु घअन्तसमुदायस्यैव पाकादौ यदि शक्तिस्तदा स्तोकम्पाक इत्यादौ कथन्द्वि. तीयेति तदेवाह एवञ्च यत्रेति ।
धात्वर्थमात्रतात्पर्यान्वये स्तोकम्पाकः कृदन्तार्थसमुदायान्वयतात्पर्ये स्तोकः पाक इति मनोरथः। केचित्तु इति वदन्तीति ।
केचिदेवैतद्वदन्ति न वयं वदाम एवम्विधाऽरुचिः।
किञ्च धातमात्रशक्तरेव रीतिसम्मतत्वात्कृदन्तसमुदायशक्तिकल्पने महागौरवम् । विवक्षयय प्रथमाद्वितीयाविभक्त्योर्विधानात् । अत एव कारकविभक्तीनां वैवक्षिकत्वनियमसुगतः।
वस्तुतस्तदनिदेश्यन्नहि वस्तु ब्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥
इत्युक्तिरपि स्तोकादीनाम्पाकादावभेदान्वयबोधे स्वन्तस्तोकपदसमभिव्याहतस्वन्तपाकपदत्वरूपाकाङ्क्षाज्ञानं कारणमत एव पचमानावित्यादौ न दोषः । तत्तद्धातूत्तरतत्तत्प्रत्ययधर्मिककिञ्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वकल्पनेन तत्तद्दोषवारणम् ।