________________
शास्त्रार्थकलोपस्कृतः तदर्थकपदोत्तरविभक्त्या संख्याबोधनेऽभेदसंसर्गावच्छिन्नप्रकारताभिन्नतदर्थविषयताशालिशाब्दबोधसामग्रो अपेक्षिता। ___तादृशश्च बोधस्तदर्थविशेष्यकस्तदर्थनिरूपितभेदान्वयविषयकश्च, नीलो घटावित्यादौ च विशेष्यवाचकपदोत्तरविभक्त्यैव द्वित्वादिक प्रत्याय्यते । नच प्रतिबन्धकत्वकल्पनमपि गौरवम् इति वाच्यम् १ एवञ्चत्ताकाङ्क्षाशरीरे प्रथमास्वादिना न प्रवेशोऽपि तु ययावाक्यं सु० अम्जस्टा०३० इत्याद्युपस्थितिकल्पनमाकाक्षाशरीरे तु सुत्वअम्त्वटात्वत्वादिनैव प्रथमाद्वितीयादीनाम्प्रवेशो नतु प्रथमात्वादिनेति प्रथमावादीनामज्ञानेऽपि क्षति विरह इतिचेदेतादृशाऽस्वरससूचनायैव वदन्तीत्युक्तमिति बोध्यमेवमरुचिसन्दर्भव्याख्यानात् इत्यलम् । तदर्थकपदोत्त'विभक्त्येति ।
परमतम्प्रदश्य सिंहावलोकनन्यायेन विशेषणवाचकपदोत्तरविभक्तिस्साधुत्वमात्राथेति पूर्वमुक्तमर्थात् विशेषणवाचपदोत्तरविभक्त्यर्थसंख्यायाश्शाब्दबोधे भानन्न भवति । सिद्धान्तस्यैतस्य वचनमात्रेण सिद्धिर्न भवति तदर्थ कार्यकारणभावमाह तदर्थकेत्यादिलेखेन । अयम्भावः, यथा घटोऽस्ति पटोऽस्ति मठोऽस्तीतिवाक्ये घटाद्यर्थकघटादिपदोत्तरसुविभक्तरेकत्वरूपसंख्यार्थ इतिघटपदजन्यशाब्दबोधे घटे या विषयता भासते सा चाभेदसम्बन्धावच्छिन्नप्रकारताभिन्नैव । तथा च घटपदोत्तरस्वर्थसंख्यायाश्शाब्द. वोधे भानम्भवति एको घटः द्वौ घटावित्यादि । नीलो घटःपीतो घट इत्यादौ नीलादौ या प्रकारतास्ति (नीलस्याऽभेदसम्बन्धेन घटेन्वयः) साचाऽभेदसम्बन्धावच्छिन्नैव नत्वभेदसम्बन्धावच्छिन्न प्रकारताभिन्नेति तत्र विभक्त्यर्थसंख्यायाश्शाब्दबोधे भानन्नेति सिद्धम् । एवञ्च किञ्चिदर्थनिष्ठविशेष्यतानिरूपिताऽभेदसम्बन्धावक्छिन्नप्रकार ताश्रयत्वज्ञानं तद्वाचकपदोत्तरविभक्त्यर्थसंख्याबोधे प्रतिबन्धकमित्येव फलितार्थकार्यकारणभावः। तदर्थनिरूपितेति । __संख्याबोधकविभक्तिप्रकृत्यर्थनिरूपितो यो भेदस्तदन्वयविषयक इत्यर्थः । यथा राज्ञःपुरुष इति । तत्र पुरुषनिष्ठविशेष्यतानिरूपितप्रकारतैव राज्ञि वर्तते परन्तु राजनिष्ठा या प्रकारता साऽभेदसम्बन्धाऽनवच्छिन्नैव, भेदसम्बन्धेनैव राज्ञःपुरुषविशेषणत्वम् । एवञ्च तत्र राजपदोत्तरङसविभक्त्यर्थकत्वसंख्याया एकराजनिरूपितस्वत्त्ववान् पुरुष इति शाब्दबोधे भानम्भवत्येव । राज्ञःपुरुष इतिवाश्यजन्यबोधो भेदसम्बन्धविषयक एव । अग्रे प्रत्युदाहरणमाह नोलो घटाविति ।
केवलान्वयित्वस्यैकत्वनीलो घट इत्यादावपि भानसम्भवाद् द्विवचनान्तप्रयोगमाह नोलौ घटाविति । अत्र अभेदसम्बन्धावच्छिन्ननीलनिष्ठप्रकारतायास्सत्वेन नील. पदोत्तरविभक्त्या द्वित्त्वन्न शाब्दवोधे प्रत्याय्यतेऽपि तु घटपदोत्तरविभक्त्यैव । तथा च .