________________
व्युत्पत्सिवादः। संख्याबोधनेऽभेदसम्बन्धावच्छिन्नप्रकारताभिन्नविषयताज्ञानकारणमितिनियमे सिद्धे क्रियाविशेषणस्तोकादीनां क्रियायाममेदसम्बन्धेनैव प्रकारत्वास्क्रियाविशेषणवाचकस्तोकादिपदोत्तरविभक्त्यर्थसंख्यायाशाब्दबोधे भानन्न भवतीति ताशपदोत्तरं साधुस्वार्थमौत्सर्गिकमेकवचनमेव । स्तोकं स्थीयत इतिवत् अत्र भावे लकारः, स्तोकम्पाकः स्तोकम्पचतीत्यादि सिद्धयतीति ।
ननु नीलो घट इत्यादौ नीलामिन्नो घट इति बोधान्नीलपदार्थघटपदार्थयोरैक्यम् । एवञ्चाभेदसम्बन्धावच्छिन्नप्रकारताभिन्नघटत्वावछिन्नविशेष्यताया नीलनिष्ठत्वात् अपि च नीलत्वनिष्ठप्रकारतानिरूपितायास्तस्या नीले विद्यमानत्वादुक्तकार्यकारणभाव. सत्त्वेन कथन्न नीलपदोत्तरसंख्याप्रतीतिः ? किञ्च नीलो घटः नीलस्येद रूपमितिसमूहालम्बनात्मकशाब्दबोधे नीलपदोत्तरसुप्रत्ययार्थसंख्याबोधस्स्यादेवेति तत्राऽभेदसम्बन्धावच्छिन्नप्रकारताया विद्यमानत्वात् । किञ्च वेदाः प्रमाणमित्यादौ सम्पन्नो व्रीहिरित्यादी च स्वप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेन स्वाश्रयप्रमाणत्ववत्त्वसम्बन्धेन स्वाश्रयाश्रयत्वसम्बन्धेन वा प्रमाणादावेकत्वान्वये प्रमाणादिनिष्ठविषयताया अभेदसम्बन्धावच्छिन्नप्रकारतात्मकत्त्वात्प्रमाणादावेकत्वसंख्याया इष्टोऽप्यन्वयो न स्यादित्यव्याप्तिरिति वाच्यम् ? तद्धर्मावच्छिन्नबोधकतत्पदोत्तरविभक्तिप्रयोज्यसंख्यानिष्ठप्रकारतानिरूपिततद्धर्मावच्छिन्नबोधकतत्पदप्रयोज्याऽभेदसम्बन्धावच्छिन्न प्रकारताभिन्नविषयतानिरूपकशाब्दसामग्री प्रयोजिकेतिकार्यकारणभावः । नीलनिष्ठाया अपि घटत्वावच्छिन्नविशेष्यताया नीलत्वावच्छिन्नत्वविरहात् नीलत्वनिष्ठप्रकारतानिरूपिताया अपि तन्निष्ठविशेष्यताया मीलत्वावच्छिन्नत्वविरहातू षष्ठथन्तपदप्रयोज्यविषयतायाःप्रथमान्तनीलपदप्रयोज्यत्वविरहात् नोक्तस्थलद्वये दोषः । वेदाःप्रमाणं सम्पन्नो प्रीहिरित्यादौ प्रमाणत्वे व्रीहित्वे च विशेषणवाचकपदोत्तरविभक्त्या संख्याबोधार्थ कार्यतावच्छेदककोटीयप्रकारतायाम्पयाप्तिसम्बन्धावच्छिन्नत्वनिवेशान्नदोषः। ननु प्रमाणत्वबीहित्ववत् संख्याया एकत्वात्मिकाया नीलत्वेऽप्यन्वयोऽस्तु तथा च नीलो घटा नीलो घटावितिप्रयोगस्यादिति चेन्न ? सति तात्पर्य तादृशान्वयेन ताहराप्रयोगस्येष्टत्वादिति पूर्वमेवोक्तत्वात् ।
ननु समानाधिकरणप्रकारताविशेष्यतयोरभेदसम्बन्ध इति जगदीशमतम् तयोरवच्छेद्यावच्छेदकभावसम्बन्ध इति गदाधरमतमिति पक्षद्वयम् । तत्राद्यपक्षे संख्याया नी. लादावन्वयनिषेधेऽपि द्वितीय पक्षे नीलो घटावित्यादी नीलत्वादिनिष्ठप्रकारतानिरूपितविशेष्यताया अभेदसम्बन्धावच्छिन्नभिन्नत्वान्नीलादी संख्यान्वयस्स्यादेवेति चेन्न ? अभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकपदप्रयोज्योपस्थितीयविशेष्यताप्रयोज्यभिन्नविषयताकशाब्दसामग्रथा अपेक्षेतिनियमःकार्यकारणभावीयः । उदाहरणञ्च नीलो घटः
पदे पदसामानाधिकरण्यन्तु-तत्पदप्रयोज्यविषय तानिरूपिताभेदसम्बन्धावच्छिन्नविषयताप्रयो. जकत्वम् तत्पदे तत्पदसामानाधिकरण्यमिति रीत्याऽवगन्तव्यम् ।