________________
शास्त्रार्थकलोपस्कृतः
१०५
एवं च क्रियाविशेषणवालकपदोत्तरविभक्त्या अबाधितयोरपि द्वित्वबहुत्वयोः प्रत्यायनासंभवात्तादृशपदोत्तर मौत्सर्गिकमेकवचनमेव भावाख्यातस्थलवदित्यव घेयम् ।
इति | संघटनप्रकारश्चेत्थम् नीलत्वप्रकारकनीलविशेष्यता तु नीलप्रकारताप्रयोजकम्पदनीलपदन्तत्प्रयोज्योपस्थितीयैवेति तत्प्रयोज्यत्वस्य शाब्दबोधीयविषयतायामिष्टायां सत्त्वेन तद्भिन्नविषयत्वाऽभावात्तादृशापत्तेर्वक्तुमशक्यत्वात् । ननु समानाधिकरणप्रका रताविशेष्यतयोरभेदसम्बन्ध इति जगदीशमतन्तयोरवच्छेद्यावच्छेदकभाव इति गदाधरमतमनयोः किञ्ज्यायस्तरमिति प्रश्नः १ यथा संयोगेन पुरुषाऽभाववान् दण्ड इति बुद्धिं संयोगेन पुरुषवान् दण्ड इति बुद्धिः प्रतिबध्नाति तथा अभेदपक्षे रक्तदण्डवत्पुरुषवानयन्देश इतिबुद्धेरपि प्रतिबन्धकत्वाऽपत्तिस्संयोगसम्बन्धावच्छिन्न पुरुषत्वावच्छि न्नप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताया
रक्तत्वावच्छिन्नप्रकारतानिरूपि
तदण्डत्वावच्छिन्न विशेष्यताऽभेदात् अवच्छेद्यावच्छेदकभावे तु न प्रतिबन्धकत्त्वम् । संयोगसम्बन्धावच्छिन्नपुरुषत्वावच्छिन्नप्रकारतात्वावच्छिन्ननिरूपकतानिरूपितनिरूप्यतावद्दण्डत्वावच्छिन्न विशेष्यताशा लिज्ञानस्यैव प्रतिबन्धकतावच्छेदकत्वेन विरोवाऽभावात् । एवं संयोगेन पुरुषवान् दण्डः संयोगेन पुरुषाऽभाववान् दण्डः रक्तदण्डवत्पुरुषवानयन्देश इति । तस्माद् गदाधरमतभेव सम्यगित्यलम् ।
अबाधितयोरिति ।
: प्रत्यायनन्न
यत्र हि कर्त्ता एक एव प्रतीयते स पाकद्वयं पाकत्रयं वा करोति तस्मिन् पाके यद्यपि न द्वित्वबहुत्वयोर्बाधस्तथापि पाकादिक्रियाविशेषणवाचकस्तोकादिपदोत्तर द्विवचनादिविभक्त्या बहुभिः प्रकारैरपि पाकादिक्रियागत द्वित्वबहुत्वयोः ! भवत्यनुभवविशेषविरोधात् । अत एव "द्विबहोर्द्विवचने" इत्येव व्यासः पार्थस्येन “द्वयेकयोर्द्विवचनैकवचने" बहुषु बहुवचन" मितिसूत्रद्वयङ्किमर्थमिति भाष्यकृतोक्तम् । अर्थादेकवचनमुत्सर्गतः करिष्यत इति सुतरां सिद्धान्तस्समायाति । तथाच भावाख्यातस्थलवत्क्रियाविशेषणवाचकपदोत्तरमेकवचनमेव साधुत्वार्थ सर्वैः प्रयोक्तव्यमिति तेनेतिहेतुम्पचतीत्यादयः प्रयोगा उपपद्यन्ते । अत एवाख्यातस्थले प्रयोगसंस्कारमात्रार्थंका अपि शयनादिविकरणाः प्रतिनियतास्सङ्गच्छन्ते ।
*
भाव ख्यातस्थलवदिति ।
भावाख्यातस्थले साधुत्वमात्रार्थमेकवचन प्रयोगस्तथैव
तरकवचनमपि ।
अत्र केचित् —
फलावच्छिन्नव्यापारे शक्तिर्द्धातूनाम् | नच सर्वेषामपि सकर्मकत्वाऽपत्तिरिति वाच्यम् १ फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् फलसमानाधिकरणव्यापारवा -
क्रियाविशेषणवाचकपदी