________________
व्युत्पत्तिवादः अभेदान्वयबोधश्च विरूपोपस्थितयोरेवेति व्युत्पत्तिः घटो घटः, दण्ड वान् दण्डवान, पाकं पचतोत्यादौ घटत्वदण्वत्त्वपाकत्वाद्यवच्छिन्ने तत्तद्रपावच्छिन्नस्य तथाविधान्वयबोधानुदयात। चकत्वमकर्मत्वम् इति लक्षागात् । किञ्च कर्मसंज्ञकार्यान्वय्यर्थकत्वं सकर्मकत्वम् तदनन्वय्यर्थकत्वमकर्मकस्वन्तेनाध्यासिता भूमय इत्यादी कर्मप्रत्ययसिद्धिः । ___ "कत्तरिति सूत्रेण तादात्म्यफलतावच्छेदकान्यतरसम्बन्धेन फलाश्रयस्यैव क. मत्वविधानम् । अत एव स्तोकम्पचतीत्यादौ स्तोकपदार्थस्य तादात्म्येन फलाश्रयत्वात्कर्मत्वम् । एतत्फलितमेव क्रियाविशेषणानां कर्मत्वमिति । अत्र क्रियापद क्रियत इति व्युत्पत्त्या फलार्थकम् । नच स्तोकःपच्यत इत्येवं कर्मणि लकारापत्तिरिति वाच्यन् ? कत्त पदसाहचर्येण भेदेन धात्वान्वितस्यैव कर्मणो लकारादिप्रत्ययविधायकशास्त्रे ग्रहणेनोक्तप्रयोगाऽसिद्धेः। अतः "कत कर्मणोःकृती"त्यनेन स्तोकपाक इत्यादौ न षष्टी । ननु मन्दं वहति पवन इत्यादौ व्यापारपदार्थेऽभेदसम्बन्धेनैव मन्दपदार्थान्वयः एवञ्च तत्र कर्मत्वन्न स्यादतोऽपूर्वकर्मत्वविधायक “क्रियाविशेषणानां कर्मत्वमेकत्वन्नपुंसकत्वञ्चे"ति क्रियापदन्तत्र व्यापारार्थकन्नतु फलार्थकमिति चेन्न ? मन्दपदार्थस्य व्यापारेऽन्वयेन व्यापारस्य मन्दत्वे परम्परया तज्जन्यकलस्याऽपि मन्दत्वं युक्तमेवेति कर्मत्वसौष्ठवात् । ननु "कर्मणि द्वितीये"तिसूत्रस्य तादात्म्यफलतावच्छेदकान्यतरसम्बन्धेन फलाश्रये प्रवृत्तिस्वीकारे गौरवाधिक्यं गुर्वर्थबोधकत्वञ्चेति चेन्न १ कर्मत्वशक्तिमत्वेनैव कर्मपदशक्यत्वस्वीकारेण लाघवादित्याहुरित्यलम् । __ ग्रन्थारम्भेऽमेदेन प्रातिपदिकाथें योऽन्वयस्तत्र समानविभक्तिकत्वं कारणमित्यादिनियमप्रबन्धमुक्त्वेदानीमभेदविषयकोऽन्योपि नियम उच्यतेऽभेदान्वयबोधश्चेति । विरूपोपस्थितगारेवति ।
__ ननु सर्वत्राऽभेदान्वयश्चैकव्यक्तरेव भवतीत्युपस्थितयोरितिद्विवचनान्तोपादानं कथङ्कारं सुगतमिति चेन्न ? तात्पर्यवलान्मूलभूतत्वाच्च पदयोरित्यद्वयाहियते षष्ठयों जन्यत्यम् । तस्य च बोधेऽन्वयः, उपस्थितयोःकोऽर्थ उपस्थापकपदयोः विरूपाभ्यां कोऽर्थो विभिन्नरूपाभ्यामुपस्थिते विरूपोपस्थिते पदे तयोविरूपोपस्थितयोःपदयोरिति यावत् । तथाच भिन्नरूपेण तत्तदुपस्थापकपदजन्य एवाभेदान्वयबोध इति । विभिन्नाम्यां नीलवघटत्वधर्माभ्यामुपस्थितयोरेवार्थयोनीलबटयोरभेदान्वयबोध इति कृष्णम्मट्टाः। केचित्तु----
अत्रायमाशयो विभाति, शाब्दबोधीयाऽभेदत्त्वावच्छिन्ना या सांसर्गिकविषयता सा उपस्थितिविषयताविशिष्टा बोध्या । वैशिष्टयञ्च स्वभिन्नोपस्थितिविषयतावच्छेदकावछिन्नविशेष्यतानिरूपितत्व स्वावच्छेदकावच्छिन्नप्रकारतानिरूपितत्वोमयसम्ब