________________
शास्त्रार्थकलोपस्कृतः । अथ तत्प्रयोजकसमानविभक्तिकत्वादेः सत्त्वात्कथं न तादृशान्वयबोधः ? अत्राहुः। यादृशं पलं कचित्प्रसिद्धयति तादृशस्यैवापत्तिः सम्भवति क्लनसामग्रोबलात् । न्धेन । विरूपता चात्र यत्किञ्चिद्धर्मापेक्षया बोध्या। तेन विशेष्यताप्रकारतयोरवच्छेदकस्यैकत्वसत्त्वेऽपि न हानिरिति फलति । एको घटशब्दो घट इवाचरति घटति घटतीति घट इत्यर्थकः अपरश्च कम्बुग्रीवादिमव्यक्तिरूपार्थकः, उभयोरसमूहालम्बनदशायामभेदान्वयविषयशाब्दबोधप्रसिद्धया नात्र षष्ठयों विषयत्वमपि तु प्रतियोग्यनुयोगिनिरूपितत्वादिकम् । एतद्भिन्ननिरासार्थमेवपदोपादानम् ।
नचैवमपि नीलो घटःघटो घट इत्याकारकस्समूहालम्बनात्मको यत्र शाब्दबोधस्तत्राऽपि घटत्वावच्छिन्न प्रकारता-घटत्वावच्छिन्नविशेष्यतानिरूपिताभेदनिष्ठसंसर्गता निरूपकत्वसत्वेन व्यभिचार इति वाच्यम् ? उपस्थितशब्दे भावे क्तप्रत्ययः उपस्थानमुपस्थितम् उपस्थितिः इत्यर्थः । विरूपे विभिन्नग्रकारिके उपस्थिती तत्प्रयोज्या या प्रकारताख्या विशेष्यताख्या विषयता तन्निरूपको योऽभेदस्तद्विषयकबोधः । अस्मिकल्पे षष्ठयों विषयता तत्रोपस्थितिपदार्थस्य प्रयोज्यत्वसम्बन्धेनान्वयः, तस्याश्च निरूपकत्वसम्बन्धेनाऽभेदेऽन्वयः, विरूपोपस्थितिप्रयोज्यविषयतानिरूपकोऽभेद इति फलति । दोषवारणोपायस्तु उपस्थितिविषयताविशिष्टाऽभेदनिष्ठा शाब्दबोधोया संसर्गता । वैशिष्ट्यञ्च स्वावच्छेकदधर्मेंतरधर्मावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितत्वस्वप्रयोज्यप्रकारतानिरूपितत्वोभयसम्बन्धेन । नीलो घटः घटो घटः इति समूहालम्बनेऽभेदनिष्ठायास्संसर्गताभिन्नत्वात्तत्र नियमाऽप्रवृत्तौ तद्वाक्यस्याऽप्रामाणिकत्वात् । अयमाशयः __ अभेदसम्बन्धेन शाब्दबुद्वित्वावच्छिन्नम्प्रति समानविभक्तिकत्वं कारणं यथा नीलो घट इति नीलघटयोरभेदान्वयस्तथैव घटो घट इत्यपि प्रयोगस्स्यात् । घटस्य स्वात्मना भेदाऽभावेन योग्यतात्त्वात्स्वात्मन्यभेदसम्बन्धेनान्वयाद् घटप्रकारकघटविशेष्य. कशाब्दबोधस्स्यादिति प्रशङ्कयाह अभेदान्वयबोधश्चेति । नीलो घट इत्यादौ नीलत्वघटत्वधर्मयोर्विरुद्धत्वात्ताभ्यामुपस्थितयोर्नीलबटयोरभेदान्वयःपरन्तु घटो घट इयत्र घटत्वावच्छिन्ने घटत्वावच्छिन्नस्याऽभेदसम्बन्धेनान्वयो न भवति घटत्वयोविरुद्धधर्मत्वाभावात् । एवं संयोगेन दण्डवत्त्वावच्छिन्ने दण्डवत्त्वावच्छिन्नस्य पाकपचतिपदाभ्याम्पाकल्वेन रूपेणोपस्थितस्य चाभेदेनान्वयो न भवति । कर्तृविशेषणतया पाकोपस्थितिःपचतिपदेनाऽपि पाकपदेनाऽपि पाकत्वेन रूपेशवेति ।
ननु सामग्रीसत्वेऽवश्यङ्कार्यञ्जननीयमितिनियमः, घटो घट इत्यत्र समान विभक्तिकत्वाकाङ्कायोग्यतातात्पर्याऽसत्त्यादिकारणानाम्बिद्यमानत्वेनाभेदसम्बन्धावच्छिन्नघट
सामग्रीत्त्वञ्च-कार्योत्पत्तिप्रयोजकतावच्छेदकीभूतसमुदायत्वावच्छिन्नत्वम् ।
---
-
----- -