________________
व्युत्पत्तिवादः।
__ यादृशं च सर्वथैवाप्रसिद्धं तादृशस्य चापादकाप्रसिद्धरापत्तिरशक्यैवेति घटत्वाद्यवच्छिन्नविशेष्यताकाभेदसंसर्गकघटत्वाद्यवच्छिन्नप्रकार.
स्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकश्शाब्दबोधः कथन्नेत्याशयेनशङ्कतेतेऽथेति । तत्प्रयोजकेत्यस्याऽभेदान्वयबोधप्रयोजकेत्यर्थः । यादृशमिति । यथा तन्तुपुञ्जन पटोत्पत्तिरूपं फलं सम्भवत्येवेति तन्त्वादिपटोत्पादकसामग्रीवलात्पटरूपं फलं सम्भवति । याहशञ्च
एष बन्ध्यासुतो याति खपुष्पकृतशेखरः ।
कूर्मक्षीरचये स्नातश्शशशृङ्गधनुर्द्धरः ॥ इत्यादिकं क्वचिदपि न प्रसिद्धन्तदापादककारणसामग्रयास्सर्वथैवाप्रसिद्धत्वेन शश. विषणाद्यापत्तेरशक्यत्वमेवेति । तथैव अभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकार. तानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्य कदाचिदपि कचिदपि केनाऽप्युपायेनादृष्टचरत्वादश्रुतचरत्वाच्च तदापतिर्न सम्भवपि कथमपि । तद्धर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयस्याऽप्रसिद्धत्वेन तदापत्तेरशक्यतरत्वात् । तथाहि, अहन्तर्कयामीत्याकारकानुभवसाक्षिकमानसत्वव्याप्यजातिविशेषाश्रयस्तर्कस्तर्क एवापत्तिशब्दार्थ इति केचित् । कतिपयकारणाधिकणे कार्याऽभावप्रयोजकजिज्ञासवापत्तिरिति गुरवः ।
किञ्च तदभावप्रयोजकीभूताऽभावप्रतियोगिविषया जिज्ञासैवापत्तिपदार्थः। उदाहरणञ्च दण्डाभावे घटाऽभाव इति, घटाभावस्य प्रयोजकीभूतो दण्डाऽभावस्तत्प्रतियोगो दण्डस्तस्य दण्डस्य या जिज्ञासा सैवापत्तिपदार्थः । किमभावप्रयुक्तोऽत्र शाब्दबोधाऽभाव इति प्रश्नकत्तु जिज्ञासा, सा च सम्भवत्येव नहि, अभेदसंसर्गकघटत्वावच्छिन्नप्रकारकधटत्वावच्छिन्नविशेष्यकशान्दबोधस्य सर्वथैवाऽप्रसिद्धत्वेन तत्कारणसमूहस्यापि सर्वथैवाऽप्रसिद्धत्वात् अभेदसंसर्गकघटत्वावच्छिन्नप्रकारताकघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्य योऽभावस्तत्प्रयोजकीभूतस्याऽभावस्य यःप्रतियोगी तद्विषया या जिज्ञासा सैवापत्तिरासद्विषयाया एव निज्ञासायास्सम्भव इति तत्त्वम् । प्रकृते च कारणाभावान्नापत्तिस्सम्भवतीति समाधानम् । कार्यापत्तिविषये कार्यव्याप्यत्वेन का. रणकूटस्यैवापादकत्वान्नास्त्येव शुद्धघटत्वावच्छिन्नप्रकारकशुद्धघटत्वावच्छिन्नविशेष्यकशाब्दबोधत्वावच्छिन्नम्प्रति प्रसिद्धेति नापत्तिरिति हृदयम् । ननु घटे नीलघटाऽभेदाऽन्वयावगाहनतात्पर्य दण्डवति रक्तदण्डवदभेदान्वयाऽवगा
तर्कशति--अयथार्थानुभवीयत्रिविधभेदमध्ये एकोऽयम्भेदः । लक्षगनास्य व्याप्यविषयकाहार्यशानजन्यव्यापकविषयकाहार्यशानत्वम् । आहार्यशानश्चेह बाधकानीलेच्छाजन्यज्ञानम्बोध्यम् । आपाचव्याप्यापादकरसानिश्चयः आपाद्यव्यतिरेकनिश्चयो वा तर्कजनकोऽत्र मतभेदः। व्याप्तिशानप्रतिबन्धकव्यभिचारशकानिवत्तनाय चास्य प्रामाण्यम स्वीकृतिर्वा । यथा हि यदि बहिर्न स्यात्तहिं धूमोsपि न स्यादित्यत्र वहयभाव आपादकः धमाभावश्वापाद्यः । आत्माश्रयान्योन्याश्रयचक्रकानवस्थितितदन्यबाधितार्थभेदात् पञ्चविधो शेय इति ।