________________
शास्त्राथ कलोपस्कृतः
१०९
कशाब्दबोधस्य क्वचिदप्यनुयात्कथं तदापत्तिः ? अथ घटो नोलघटः दण्डवान् रक्तदण्डवानित्यादौ तादशशाब्दबोधस्य प्रसिद्धिः ।
विधेयकोटाअधिकावगाहिनः
चेत्तर्हि घटाद्यंशे
शाब्दबोधस्य नवीनैः स्वीकारादिति विशेषणतावच्छेदकविधया नीला विमाननियामकनोलाघुपस्थितितात्पर्यज्ञानविशेषादिघटितैव सामग्री घटत्वावच्छिन्नविशेष्यकनोलघटत्वाद्यवच्छिन्नाभेदान्वयबोधप्रयोजिका, तदभावादेव घटो घट इत्यादिषु न तादृशशाब्दबोधापत्तिरिति केचित् ।
हनतात्पर्येण च भ्रटो नीलघटः दण्डवान् रक्तदण्डवानित्यादौ विधेयकोटावर्थाद् विशेषणकोटावधिकावगाहिशाब्दबोधस्या मेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नषटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकस्य अभेदसम्बन्धावच्छिन्नर करवावच्छिन्नदण्डवत्वावच्छिन्नप्रकारता निरूपितदण्डवत्त्वावच्छिन्न विशेष्यताकस्य च दर्शनेनात्र घटत्वमेव प्रकारतावच्छेदकं विशेष्यावच्छेदकञ्चकम् दण्डवत्त्वम्प्रकारतावच्छेदकं विशेष्यतावच्छेदकञ्चैकमेव । तथाच घटो नीलघट इत्यादावभेदसंसर्गकनी लघटत्वावच्छिन्नप्रकारकघटत्वावच्छिन्न विशेष्यकबोधस्या “धिकन्तु प्रविष्टं न तु तद्धानि” रिति न्यायबलेन प्रसिद्धत्वात्ताहशकारणसामग्रथा घटो घट इत्यत्र शाब्दबोधः पूर्ववत्स्यादिति तात्पर्यणाशङ्कते थेति । उत्तरयति तर्होति । अयम्भावः, घटो नीलघट इत्यत्र शुद्धघटे शुद्धघटस्याभेदेन सम्बन्धेनान्वयो न भवत्यपि तु नीलघटस्यैवान्वयः ।
एवञ्च घटे विशेषणीभूतो घटस्तत्र विशेषणीभूतो नीलपदार्थ इतिविशेषणतावच्छेदकत्वेनैव नीलपदार्थप्रतीतिर्नीलपदार्थप्रतीतिनियामक नीलपदजन्यनीलोपस्थितिस्तत्तात्पर्य्यज्ञानञ्चैतादृशसामग्रीसच्चे शुद्धघटत्वावच्छिन्ने नीलघटत्वावच्छिन्नस्याऽभेदे - नान्वयः । नीलपदसमभिव्याहारादिकारणकूटाभावाद् घटो घट इत्यत्राऽभेदसंसर्गकघटप्रकारकघटविशेष्यकशाब्दबोधाऽभावादित्याह केचिदिति ।
नवीनै स्वं (कारादिति ।
उद्देश्यवक सकलपदार्थानाम्बिधेयघटकत्त्वेनैव मानमितिनियमः । अभेदान्वयत्रो - धस्थले उद्देश्यघटकाश्रयांशात्मकत्वमवश्यमेव विधेयस्येति तात्पर्य्यम् | विधेयत्वञ्च अपूर्वबोध्यत्वम् । अर्थबोधनाय लोके वाक्यप्रयोगः । वाक्यरचनाफलञ्च प्रवृत्तिनिवृच्युपयोगि विशिष्ट विषयकज्ञानसम्पत्तिस्संशयनिवृत्तिश्चेति सर्वाभिमतः पन्थाः | एवञ्च घटत्वेनावगतेऽप्युद्देश्ये घंटे घटो नीलघटो नवेतिसंशयस्य सर्वानुभवसम्पन्नतया नीलघटार्थिनास्तत्र प्रवृत्तिर्न स्यात् । नीळाऽभिन्नघटविषयकशाब्दबोधमात्रे तु असमानप्रकारकतयोक्तसंशयेन साकम्प्रतिबध्यप्रतिबन्धकभावो न स्यात् । अतो विधेयांशेऽधिकावगाद्दिशाब्दबोधो मन्तव्यस्तथाच नीलवटाऽभिन्नो घट इत्येव शाब्दबोधः । एतस्य च घटो नीलघटो नवेतिसंशयप्रतिबन्धकत्वम्भवत्येवेति अगत्या कस्यचिदंशस्या