________________
व्युत्पत्तिवादः। . पूर्वत्वेऽपि तद्विशिष्टत्वेन पूर्वमवगतोऽप्यपूर्व एवेत्यपूर्वबोध्यत्वरूपविधेयत्वमस्त्येवेत्य धिकावगाहिबोधो नवीनैरङ्गीकृतः । मूले नवीन इतिनामोच्चारणेन प्राचीनानान्नानुमतिरस्मिन्पक्ष इति व्यञ्जना। प्राचीनास्त ____ अभेदान्वयबोधस्थले उद्देश्यस्य अपूर्वबोध्यत्वरूपविधेयत्वन्नारत्युद्देश्यस्य घटादेर्घत्वेन रूपेण प्रथमावगतत्वात्पूर्वावगतत्वात् विधेयतयोद्देश्यावगाही शाब्दबोधो न भवतीत्यर्थाद् घटो नीलघट इत्यादौ नीलाऽभिन्नो घट इत्येवमेव शाब्दबोधो न कदाचिदपि नीलघटाऽभिन्नो घट इति तात्पर्य्यम् । नन्वेवमभिधाने नीलो घट इत्यादावपि केवलनैल्यमात्रस्य विधेयत्वमापद्येत नत्वाश्रयांशस्य घटस्याऽपि, घटस्य घटत्वेन रूपेण पूर्वावगतत्वादिति कीहशो घट इतिप्रश्ने नीलो घट इत्युत्तरणे घटस्य पूर्वमेवानुगतत्वादिति चेन्न ? नेल्यस्य घटपदार्थेन साकमभेदान्वयो वाधितोऽनुभवविरुद्धश्च । नेल्यमात्रान्वयतात्पर्येण लोको नीलो घट इति न प्रयुक्तेऽपि तु नीलघटयोरभेदान्वयतात्पर्येणैव । अभेदान्वयप्रतिभाषणेच्छयैव नोलो घट इति प्रयुक्त भेदान्वयप्रतिभाषणेच्छया नैल्यमात्रान्वयतात्पर्येण च नीलस्य घट इतिषष्ट्यन्तघटि. तमेव प्रयुक्ते । राज्ञःपुरुष इतिवन्नत राजा पुरुष इतिवत् । अभेदान्वयबोधम्प्रति समानवचनकत्वनियमेनैव नीलो घट:नीलस्य घट इत्येनयोर्वाक्ययो_लक्षण्यम् । यदि नैल्यमात्रस्य भेदसम्बन्धेनाऽपि घटेऽन्वयस्तहि शिष्टाभिमतवाक्यवलक्षण्यानुपपत्तिस्तथाचागत्याऽश्रयांशस्य घटस्याऽपि विधेयकोटी प्रवेशेन नीलघटयोद्धयोरेवापूर्वबोध्यत्वरूपविधेयत्वन्नतु नैल्यमात्रस्येति सिद्धान्तः। घटो नीलघट इत्यादावपि शास्त्रसिद्धान्तविरोधाऽभावाल्लोकविरोधाऽभावाच्च नीलाऽभिन्नो घट इत्येव बोधो नीलमात्रस्यैव विधेयत्वेन भानम् । एवञ्च नीलस्यैवापूर्वबोध्यत्वरूपविधेयत्वान्नीलाऽभिन्नी घट इति सिद्धान्तो नतु नीलघटाऽभिन्नो घट इति प्राचीनाभिमतिः ।
ननु नवीनमतमभिप्रेत्यापत्तिवारणोपायश्च घटी घट इत्यत्र नीलोपस्थापकनील. पदविरह पवेति पूर्वमुक्त कथं सङ्गच्छते । नीलोपस्थितिविरहेऽपि घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्य पीतो घटःरक्तो घट इत्यादिष्वपि प्रतीतिविषयत्वात् । तथाच नीलोपस्थितिविरहस्याऽकिञ्चित्करत्वाद् घटी घट इत्यादाबभेदसंसर्गकघटप्रकारकघटविशेष्यकबोधस्स्यादेवेति चेन्न? नीलघटो घट इत्युपलक्षणम्पीतो घटो घटः रक्तघटो घट इत्यादीनामपि । तथाहि, घटत्वेतरधर्मोपस्थापकसामग्रीसत्वेऽभेदान्वयबोधो घटत्वेतरधर्मोपस्थापकसाया अभावेनाऽभेदान्वयबोध इति तात्पर्यात् । घटो घट इतिस्थले तु घटेतरधर्मोपस्थापकसामग्र्या अभावेनाभेदान्वयबोधो न भवतीत्याशयात् । किञ्च नीलघटो घट इतिस्वरूपे नीलघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वादिरूपमेव तद्धर्मावच्छिन्नकार्यसत्त्वम् , यच्च नीलघो घट इत्याद्याकांक्षाज्ञानजन्यतावच्छेदकन्तदवच्छि