________________
शास्त्रार्थकलोपस्कृतः
१११ नसामग्रीप्रयोज्यमेव, नीलादिपदजन्यनीलाद्युपस्थितिघटितमामग्रथा अभावेन घटो घट इत्यादावभेदान्वयाऽभावात् । ननु प्रसिद्धव्यक्तः कस्या अप्यन्यत्रोत्पत्तेरसम्भवो व्यवहारसिद्धस्तदापत्तिः कथमिति प्रश्ने प्रसिद्धो यो धर्मस्तदवच्छिन्नकार्यतानिरूपितकारणताश्रयबलेन तद्धर्मावच्छिन्नकार्यस्याऽपत्तिरिति तात्पर्यकल्पनम् । एवञ्च अभेदसंसर्गकघटत्वावच्छिन्नप्रकारकघटत्वावच्छिविशेष्यकशाब्दबुद्धित्वावच्छिन्नम्प्रति प्रथ- . मान्तघटपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाकाङ्क्षाज्ञानादेरेव कारणत्वेन तादृशसामग्रयाश्च नीलबटो घट इत्यत्रत्यायास्सत्त्वेन नीलाद्युपस्थितिविरहस्य निरर्थकत्वेन घटो घट इत्यत्राऽभेदान्वयस्स्यादेवेति चेन्न ? निर्विशेषस्य सामान्यस्याऽभावेन सामान्यधर्मावच्छिन्ने कार्ये जननीये विशेषधर्मावच्छिन्नकार्योत्पादकसामग्रथा एवापादकत्वमितिनियमस्तथाच घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धिस्वरूपसामान्यधर्मावच्छिन्नकार्योत्पत्तिम्प्रति नीलघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वरूपविशेषधर्मावच्छिन्नकार्योत्पादकसामग्रथा नीलाद्यपस्थितिघटिताया एवापादकत्वेन नीलाद्युपस्थितेरपेक्षणीयत्वेन तदभावाद् घटो घट इत्यत्रापत्त्यभाव इति तात्पर्यवर्णनात् ।
इति परीक्षालेखप्रकारः।
अथ शास्त्रार्थप्रकारः । शुद्धघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धि त्वावच्छिन्नम्प्रति नीलघटत्वावच्छिन्नप्रकारतया प्रसिद्धा सामग्री कथं घटी घट इत्यादौ शाब्दबोघञ्जनयेदित्येवञ्च नीलाद्युपस्थापकनीलपदघटितसामग्रथा अभावेन घटो घट इत्यादावदोष इति विशिष्टाभिधानाच्च ।
ननु व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादकसामग्रथाः केन रूपेण कारणता, व्याप्यधर्मावच्छिन्नकार्योत्पादकसामग्रीकूटत्वेन कारणता, आहोस्वित् यत्किञ्चित्सामग्रीत्वेन ? आये नीलघटो घट इत्यत्र शाब्दबोधो न स्यात्पीताद्युपस्थापकपदाऽभावात् सामग्रीकूटाऽभावात् । अन्त्ये योग्यतातात्पर्यज्ञानयोस्सत्त्वेन घटो घट इत्यादावापत्तिस्तदवस्थेवेति । यत्किञ्चिद्वयाप्यधर्मावच्छिन्नकार्योत्पादकसामग्रथा एव कारणत्वमित्यपि न वक्तु शक्यते ! नीलघटो घट इत्यादौ यत्किञ्चिद्व्याप्यधर्मावच्छिन्नकार्योत्पादकसामग्रीसत्त्वेन घटो घट इत्यादौ यत्किञ्चिदसत्त्वेन निर्वाहेऽपि यत्किञ्चित्पदप्रवेशेऽननुगमदोषात्प्रयासो निरर्थकः ।
अथ नीलघटत्वावच्छिन्नप्रकारताकशाब्दबोधे नीलघटो घट इत्याकाङ्क्षाज्ञानस्य कार णत्वम् । पीतघटत्वावच्छिन्नप्रकारकशाब्दबोधे पोतो घट इत्याकाङ्क्षाज्ञानस्य कारणत्वम् । एवम्प्रत्येककार्यकारणभावकल्पनापत्तावनन्तकार्यकारणभावकल्पनापत्तिः । एवञ्च लाघवात् घटत्वावच्छिन्नघटत्वेतरधर्मावच्छिन्नप्रकारताकघटत्वावच्छिन्नविशेग्यताकशाब्दबोधे प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाक्षाज्ञानस्य