________________
११२
व्युत्पत्तिवादः । अथ द्रव्यत्वावौ धर्मितावच्छेदकत्तासंसर्गेण प्रसिद्धस्य शुद्धधरस्वामच्छिन्नप्रकारकाभेदान्वयबोधस्य घटत्वादावापत्तिसंभवात् । न च तत्रापार. काभावः, तात्पर्यज्ञानविशेषादिघटिताया धर्मितावच्छेदकतया द्रव्यत्वादी तदुत्पादनियामकसामरया एवापादकत्वात् । हेतुताकल्पनावश्यकत्वेन घटो घट इत्यत्राऽपि तादृशाकाक्षाशानस्य सत्वेन घटत्वावच्छिन्नघटत्वेतरनीलत्वाद्यवच्छिन्नप्रकारताकशान्दवोधाऽपत्तिसम्भवनिरासाय ग्रन्थकारप्रवृत्तिरर्थात् घटत्वेतरधर्मस्योपस्थापकाऽभावान्न शान्दबोधो घटो घट इत्यत्र, तत्र पदजन्यवृत्तिज्ञानाधीनोपस्थितेः कारणत्वात्पूर्वमुक्त मपि प्रकारान्तरेणैतत्पुनरपि सारल्यार्थं विस्पष्टीकृतम् । आपत्ती वारितायामपि द्रव्यं धट इतिदृष्टान्तेन घटो घट इत्यत्र पुनरपि दर्शयति अथेति । धर्मितावच्छेदकतेत्यस्य विशेष्यतावच्छेदकतेत्यर्थः। द्रव्यं घट इत्यत्र द्रव्यं धर्मी धर्मितावच्छेदकन्द्रव्यत्वम् , द्रव्यत्वनिष्ठा विषयता च धर्मितावच्छेदकतारूपा । तत्रैव च सम्बन्धत्वम् तेनैव सम्बन्धेन द्रव्यत्वे शान्दबोद्धश्शुद्धघटत्वावच्छिन्नप्रकारकाऽभेदान्वयो यथा तथैव घटी घट इत्यत्राऽपि धर्मितावच्छेदकतासम्बन्धेन घटत्वे शुद्धघटत्वावच्छिन्नप्रकारकाऽभेदान्वबोधस्यापत्तिरस्त्येवेत्याह दव्यस्वादाविति । नच धर्मितासम्बन्धेन कार्यकारणभावोऽस्त्वलमवच्छेदकत्वनिवेशेन तत्तद्धर्मिणाम्भिन्नत्वेऽप्येकधर्मावच्छिन्नधर्मिताया अनुगमन सकलधर्मिषु धर्मितासम्बन्धेन शान्दबोधी भविष्यत्येवेति वाच्यम् ? "जात्याकृतिब्यक्तय : पदार्थ" इतिसूत्रवलेन द्रव्यत्वेऽपि शाब्दबोध इति व्यवहागनुपपत्तिस्तेन धर्मितासम्बन्धेन द्रव्यत्वस्य कार्याधिकरणवृत्तित्वाऽभावात् । विषयतासम्बन्धेन द्रव्यलस्य कार्याधिकरणवृत्तित्वाभावात् । विषयतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति विषयतासम्बन्धेनोपस्थित्यादिकङ्कारणमिति विषयनिष्ठप्रत्यासत्या कार्यकारणभावे विषयाऽनिवेशप्रयुक्तलाघवबलेनैवापत्तिप्रदर्शनन्तदेवाह घर्मितेति ।
धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादाविति-- कार्यतावच्छेदककारणतावच्छेदकान्यतरसम्बन्धेन कार्यकारणान्यतराधिकरणीभूतो यो देशस्तदवच्छिन्नतविच्छिन्नकार्योत्पत्तिप्रयोजकत्वन्तु तद्धर्मावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकावच्छिन्नघटितसमुदायात्मकसामग्रथा एवेति नियमः। अत एव कपाले घट उत्पद्यत इतिवाक्येऽवच्छेदकत्वं सप्तम्यर्थमादाय लोके व्यवहारस्सार्वजनीनस्तद्वत् पर्वते घट उत्पद्यत इति न भवति तद्देशावच्छिन्नत्वाऽभावात् । किन्तु विशल्याव्रणहन्त्रीवलवहिकादिमहौषध्यादिकार्यत्वावच्छिन्नम्प्रति तादात्म्यसम्बन्धेन हिमालयविन्ध्यादीनामेव कारणत्वम् । अत एव कुलालगृहे घटा उत्लघन्ते हिमालयेविन्ध्यादौ वा महौषधय उत्पद्यन्त इत्येवं सम्प्रदायसिद्धाः प्रयोगाः। तथाच प्रकृते धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादावित्यत्राऽपि कपाले पट उत्पद्यत इत्यादिवत् अवच्छेदकत्वं सम्बन्धावच्छिन्नत्वं सप्तम्यर्थ इति योजना ।