________________
शास्त्रार्थकलोपस्कृता अत्रायमभिसन्धिः, ननु द्रव्यत्वावच्छिन्नविशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताकशाब्दबुद्धित्वावच्छिनकार्यतानिरूपितकारणतावच्छेदकधर्मों यद्यपि घटो द्रव्यमित्यत्र घटत्वावच्छिन्नप्रकारकद्रव्यत्वावच्छिन्नविशेष्यकयोग्यताज्ञानादौ विद्यवेतरामत एव तद्घटितसमुदायस्य सामग्रीत्वन्तयापि कार्यतावच्छेदकसमवायसम्बन्धेन कारणतावच्छेदकसमवायसम्बन्धेन च पूर्वोक्तकार्यकारणान्यतराधिकरणमात्मैव नान्यःकश्चनेति तदवच्छिन्नकार्योत्पत्तिप्रयोजकत्वमेव नतु द्रव्यत्वावच्छिन्नायां, घर्मितावच्छेदकतासम्बन्धस्य कार्यतावच्छेदकसम्बन्धत्वाऽभावेन द्रव्यत्वस्य तद्देशीयत्वाऽमावाच । तथाच कथं ग्रन्थसङ्गतिरिति चेन्न ? पूर्वोक्तनियमे हि कार्यतावच्छेदकसम्बन्धन कार्याधिकरणमित्यशेऽवच्छेदकता धर्मसंसर्गोभयसाधारणी गृह्यते । तद्धर्मावच्छिन्नकार्यतेत्यत्रावच्छेदकता च पर्याप्तिसम्बन्धेनेति नाग्रहःकिन्तु अपर्याप्त्याऽपि अवच्छेदकता गृह्यत इति विशिष्टव्याख्यावर्णनेन ग्रन्थाऽनुपपत्तिपरिहारात् । तथाच धर्मितावच्छेदकताया द्रव्यत्वनिष्ठाया:कार्यतावच्छेदकघटकत्वं सुघटमेव । तेन सम्बन्धेन द्रव्यत्वस्य कार्याधिकरणदेशत्वमित्यलम् ।।
- अत्र कार्यकारणभावे प्रकारद्वयम् आत्मनिष्ठप्रत्यासत्या शाब्दबोधः विषयनिष्ठप्रत्यासत्या च, प्रत्यासत्तिसम्बन्धः आदौ समवायसम्बन्धः अन्त्ये विषयतासम्बन्धः । समवायसम्बन्धेन शाब्दबोधकारणीभूतोपस्थितियोग्यतातात्पर्यासत्तिज्ञानानां ज्ञानरूपत्वेनात्मनि स्थितिभवतीतिशान्दवोधादिप्रतियोगिकात्मनिष्ठसमवायेन कार्यकारणभावः। समवायेनोक्तकारणानामा-- त्मनिष्ठत्वेन शाब्दबोधरूपकार्यमप्यात्मन्येवोत्पद्यते। समवायसम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति समवायसम्बन्धेनोपस्थित्यादिकङ्कारणमितिकार्यकारणभावः। परन्तु स: मवायेन पटविषयकोपस्थितिसत्वे समवायसम्बन्धेनात्मनि घटत्वावच्छिन्नविषयकशान्द. बोधाऽपत्तिस्स्यादती विषयप्रवेशः। तथाच समवायसम्बन्धेन पटत्वावच्छिन्नविषयकशाग्दबुद्धित्वावच्छिन्नम्प्रति समवायसम्बन्धेन पटत्वावच्छिन्नविषयकोपस्थित्यादिककार. णमिति । अत्रानन्तविषयाणामनन्तधर्मितावच्छेदकानाम्बा प्रवेशः । विषयनिष्ठप्रत्या. सत्या कार्यकारणभावस्तु ज्ञानस्य विषयतासम्बन्धेन विषये स्थितिनिस्य समवाये नात्मस्थितिवत् ज्ञानस्वरूपशाब्दबोधतत्कारणानाविषयतासम्बन्धेन विषये सम्भत् । विषयतासम्बन्धेन शान्दबुद्धित्वावच्छिन्नम्प्रति विषयतासम्बन्धेनोपस्थित्यादिकङ्कारणमिति । परन्त्वनाऽपि समवायेन देवत्तात्मन्युपस्थित्यादिकारणसत्त्वे यजदतस्याऽपि शाब्दबोधापत्तिरतस्तत्पुरुषोयत्वनिवेशः। तथाच देवदत्तीयघटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नम्प्रति विषयतासम्बन्धेन देवदत्तीयघटत्वावच्छिन्नविषयकोपस्थित्यादिककारणम् । एवश्व आत्मनिष्ठप्रत्यासत्या शाब्दबोधे विषयप्रवेशः। वि. प्रयनिष्ठप्रत्यासत्या शान्दबोधे तत्पुरुषीवत्वनिवेश इत्युभयत्र तुल्यत्वमेव । विशेष्यविशेषणयोस्तुत्पसंख्याकत्वेन छामवन्नाऽपि गौरवम् । परन्तु यत्र विशेष्याविषणयो
८ व्यु०