________________
११४
व्युत्पत्तिवादः
न च धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशान्वयबोधोत्प चिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्न विशेष्यकोपस्थितिस्तद व र्विषमसंख्याकत्वन्न भवत्यर्थात् विशेषणानि बहूनि नीलो घटः पोतो घटः सुन्दरो घर्ट इति विशेष्यञ्चैकमेव तत्रात्मनिष्ठप्रत्यासत्या शाब्दबोधे यदात्मन्युपस्थित्यादिकन्तदात्मन्येव शाब्दबोधः । आत्मनाश्ञ्च नानात्वेन पृथक् पृथकू अनन्तकार्यकारणभावस्तथाहि, समवायसम्बन्धेनाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूतिघटत्वा
च्छिन्नविशेष्यताकशाब्द बुद्धित्वावच्छिन्नम्प्रति समवायेनाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नोपस्थित्यादिकङ्कारणम् । एवं समवायेन अभेदसम्बन्धावच्छिन्न पीतत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्दबुद्धित्वावच्छिन्नम्प्रति समवायेनाऽभेदसम्बन्धावच्छिन्नपीतत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नोपस्थित्यादिकङ्कारणम् । एवं समवायेनाऽभेदसम्बन्धावच्छिन्नसुन्दरत्वावच्छिन्नेत्याद्यनन्तकार्यकारणभावाः गौरवग्रस्ताः । विषयनिष्ठप्रत्यासत्त्या शाब्दबोधे तु घटत्वावच्छिन्न विशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारतावच्छेदक• तासम्बन्धेन तत्पुरुषीयशाब्दबुद्धित्वावच्छिन्नम्प्रति घटत्वावच्छिन्न विशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्न प्रकारतावच्छेदकतासम्बन्धेन तत्पुरुषीयोपस्थित्यादिकङ्कारणमित्येकेनैव कार्यकारणभावेन पूर्वोक्तवाक्ये निर्वाहः । किञ्च यत्र विशेषणमेकमेव विशेव्याणि बहूनि नीलो घटः नीलः पटः नीलो मठ इति अत्रात्मनिष्ठप्रत्यासत्त्या शाब्दबोधे यदात्मन्युपस्थित्यादिकन्तदात्मन्येव शाब्दबोध इति पूर्वोक्तरीत्या समवायेनाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्द
बुद्धित्वावच्छिन्नम्प्रति समवायेनाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नोपस्थित्यादिकङ्कारणम् । एवं समवायेनाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितपटत्वावच्छिन्न विशेष्यताकशाब्दबुद्धि त्वावच्छिन्नम्प्रति समवायेनाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितपटत्वावच्छिन्न विशेष्यताकोपस्थित्यादिकङ्कारणमिति । आत्मनामनन्तत्वेन पृथक् र अनेककार्यकारणभावा गौरवग्रस्ताः । विषयनिष्ठप्रत्यासत्या शाब्दबोधेतु अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारता निरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितविषयता ( धर्मितावच्छेदकता ) सम्बन्धेन तत्पुरुषीयोपस्थित्यादिकङ्कारणमिति लाघवसम्पन्न एक एव कार्यकारणभावः । तथाच प्रकृते मूलग्रन्थसंलगनेच्छया आत्मनिष्ठप्रत्यासत्या शब्दबोधे चिकीर्षिते विषयप्रवेशाद् द्रव्यघटपदाभ्यान्द्रव्यत्वेन घटत्वेन चोपस्थितिस्तदात्मनि समवायेन तद्विषयकशाब्दबोधस्तत्रैव, घटो घट इत्यत्र द्वाभ्यां घटपदाम्यां घटत्वेनैकरूपेणैवोपस्थितिरिति वैषम्यात्तादृशदृष्टान्तेन घटो घट इत्यत्रापत्तिर्न सम्भवतीत्याशयेनात्मनिष्ठप्रत्यासति गौरवान्विताम्विहाय लाघवोपस्कृतविषयनिष्ठप्रत्यासत्या शाब्दबोधमाह धर्मिताव