________________
शास्त्रार्थकलोपस्कृतः छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्रथेव । च्छेदकतासम्बन्धेनेति । अयभिप्रायो ग्रन्थकृताम्, धर्मितावच्छेदकतासम्बन्धेन द्रव्यं घट इत्यत्र द्रव्यत्वेऽभेदसम्बन्धेन घटप्रकारको बोधो भवति । तथैव रीत्या घटो घट इत्यत्रापि धर्मितावच्छेदकतासम्बन्धेन घटत्वे घटप्रकारकाऽमेदान्वयबोधो विषयनिष्ठप्रत्यासत्त्या लाघवानुगृहीतयाऽभीष्टस्स कथन्न स्यात् । द्रव्यं घट इत्यत्रत्या घटप्रकारकाभेदान्वयबोधीया या सामग्री साच घटो घट इत्यत्राऽपि वरीवत्येव । स्वात्मनाऽमेदस्याऽपि सत्त्वात् योग्यताज्ञानबलेन घटो घट इत्यत्र घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्यापत्तिरस्तीत्येतत्सर्वम्मनसि निधायाह पूर्वपक्षकर्ता धर्मितावच्छेदकेति ग्रन्थेनेति ।
इति परीक्षालेखप्रकारः।
___ अथ शास्त्रार्थप्रकारः। नन्वमेदान्वयविषयकतात्पर्यशानादिघटितसामग्रीबलेन द्रव्यं घट इत्यत्र घटत्वाव. च्छिन्नप्रकारकाऽभेदान्वयबोधेऽपि तद्वोधानुकूलसामग्ऱ्या घटी घट इत्यत्राभाव एवेति कथमभेदान्वयबोध इत्याशयेनाह नच तत्रापादकाऽभाव इति ! सामग्रीकदम्ब वक्ति तात्पर्यज्ञानविशेषादीत । अयमभिप्रायः, द्रव्यं घट इत्यत्र यावती शाब्दबोधप्रयोजिका सामग्री वरीवति तावत्येव घटो घट इत्यत्राऽपीति दृष्टान्ते कियती सा. मग्री घटपदन्द्रव्यपदार्थान्वितस्वार्थम्बोधयत्विति तात्पर्यशानम् । घटत्वावच्छिन्नाsभेदसंसर्गवान् द्रव्यपदार्थ इति योग्यताशानम् धर्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानं द्रव्यत्वे विद्यते इयत्यास्सामग्या घटो घट इत्यत्रापि निरन्तरम्विद्यमानत्वात्तस्या उत्पादकत्वेन घटत्वावच्छिन्नप्रकारकघटत्वावच्छिन्नविशेष्यकाऽभेदसंसर्गकबोधस्स्यादेवेति तात्पर्य्यम् ।
ननु घटोत्पादकत्वेनाऽपि कुलालः पटङ्कत्तुन्न शक्नोतीति न्यायेन द्रव्यं घट इत्यत्र द्रव्यपदजन्यद्रव्यत्वप्रकारकोपस्थितियोग्यताज्ञानादिघटिता सामग्री धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे शाब्दबोधञ्जनयति सा कथं घटो घट इत्यत्र शाब्दबोधञ्चनयेदिति चेन्न ? धर्मितावच्छे दकतासम्बन्धेन द्रव्यत्वे शाब्दबोधोत्पादिका यादृशी सामग्री तादृशी घटो घट इहाऽपीति तात्पर्यात् । यथा द्रव्यं घट इति वाक्यं घटान्वितद्रव्यपरमितिवत् घटो घट इति वाक्यं घटान्वितपरमिति तात्पर्यज्ञानात् । एवं योग्यताशानादयोऽपि ।
नन्वेवमपि दृष्टान्तदाष्टान्तिकयोमहद् वैषम्यन्ताहशोपस्थितियोग्यताज्ञानादीनामात्मनिष्ठतया धर्मितावच्छेदकतासम्बन्धेन जायमानशाब्दबोधस्य विषयनिष्ठतया सामानाधिकरण्याभावात्कथन्तस्य धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्ववृत्तिशाब्दबोधोस्वादकत्वम् । किवान्या वर्तमानस्य तादृशोपस्थितियोग्यताशानादेरन्यत्रापि धर्मिता