________________
व्युत्पत्तिवादः। वच्छेदकतासम्बन्धेन घटत्वावच्छिन्नप्रकारताकशाब्दबोधोत्पादनसामर्थ्यकल्पने तत्र स्थिततादृशोपस्थितियोग्यताशानबलादेव घटो घट इत्यत्राऽपि घटत्वादौ तादृशशाब्दबोधाऽपत्तिर्दुरैव । सत्यमेतत् ? घटत्वावच्छिन्नप्रकारताकद्रव्यत्वावच्छिन्नविशेष्यताकाऽभेदान्वयबोधस्यात्मनिष्ठस्य कारणत्वमुक्तयोग्यताज्ञानोपस्थित्यादेर्भवतामभिमतम् । एवञ्च तादृशशाब्दबुद्धित्वाक्रान्तस्य धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे जायमानशाब्दबोधेऽपि सत्त्वेन द्रव्यत्वे घटत्वावच्छिन्नप्रकारताकाऽभेदान्वयबोधस्य घटत्वा. वच्छिन्नप्रकारताकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वाकान्तत्वेन तम्प्रति तादृशयोग्यताज्ञानादीनां हेतुत्वम् । तादृशशाब्दबुद्धित्वावच्छिन्नधर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे जायमानशाब्दबोधम्प्रति कारणत्वन्नेति किम्बनिगमकमिति भवतैव विचिन्त्यताम् । नहि सम्बन्धकालमैदेन नानास्थले जायमानस्तादृशशाब्दबोधः । समघायसम्बन्धेन जायमानो यश्शाब्दबोधस्तयोः परस्परभेदोपपादनकथनमपि भवितुमर्हति । किश्च घटत्वेऽपि तदेव ज्ञानं शाब्दबोधञ्जनयत्वित्ति कथमपि न युक्तियुक्तम् १ द्रव्यत्ववृत्तिधर्मितावच्छेदकतायास्तादृशयोग्यताशाननिरूपितकार्यतावच्छेदककोटिप्रविष्टतया तादृशशाब्दबोधजनकत्वेऽपि तत्कार्यतावच्छेदकाऽप्रविष्टघटत्ववृत्तितादृशशाब्दबोधजनकत्वे मानाऽभावात्। नच द्रब्यत्वावच्छिन्नविशेष्यताकयोग्यताज्ञाननिरूपितकार्यतावच्छेदकत्वं यदस्ति तदेव घटत्वावच्छिन्नप्रकारताकघटत्वावच्छिन्नविशेष्यताकाऽभेदान्वयस्याऽप्यस्तु तत्कुक्षिप्रविष्टत्त्वात् । घटत्त्वेऽपि तादृशसम्बन्धबलेन तादृशयोग्यताशानादिबलाच्छाब्दबोधस्स्यादेवेति वाच्यम् ? तादृशयोग्यताज्ञानादिघटितसामन्यास्तादृशशाब्दबोधम्प्रत्यव्यापकत्वेन कारणत्त्वाऽभावात् ।
नन्वेवमपि धर्मितावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति द्रब्यत्वावच्छिनविशेष्यताकयोग्यताज्ञानस्य कारणत्वमित्येव फलितम्भवति । तथा च घटः प्रमेय इत्यादौ प्रमेयत्वेऽपि धर्मितावच्छेदकतासम्वन्धेन शाब्दबोधो न स्यात् । द्रव्यत्वावछिन्नविशेप्यकोपस्थितेर्योग्यताज्ञानादेरभावात् । प्रमेयत्वावच्छिन्नविशेष्यकयोग्यताशानादीनामपि कारणत्वकल्पने परस्परजन्यबोधे व्यभिचारापऽत्या तद्वारणाय कार्यतावच्छेदककोटौ कारणानन्तर्यनिवेशत्यावश्यकतया गौरवात् । नच धर्मितावच्छेदकत्तासम्बन्धेन शाब्दबोधम्प्रति योग्यताज्ञानादीनामेवास्तु, कारणत्वम् । एवञ्च न गौरवनापि परस्परजन्यबोधे व्यभिचार इति वाच्यम् ? तथा सति घटो द्रव्यमितियोग्य. ताशानदशायां घटः प्रमेय इत्यादिवाक्यादपि शाब्दबोधापत्तिः । नच द्रव्यत्ववृत्तिधमितावच्छेदकतासन्बन्धेन शान्दबोध एव तादृशयोग्यताज्ञानस्य कारणत्वमिति वाच्य म् ? योग्यताज्ञानाऽभावेऽपि घटपटयोरभेदान्वयाऽपत्तेः। नच धर्मितावच्छेदकतासम्वन्धेन द्रव्यत्ववृत्तिशाब्दबोधे द्रव्यत्त्वावच्छिन्नविशेष्यकयोग्यताशानादेः कारणत्वमिति न दोष इति वाच्यम् ? तथा सत्यनन्तकार्यकारणभावापत्तौ परस्परमन्यबोधे म्यभिचारवारणायाव्यवहितोत्तरत्वनिवेशेऽपि घटो द्रव्यम् घटः प्रमेयः घदो घट इति