________________
शाखार्थकलोपस्कृतः समूहालम्बने व्यभिचारापत्तेरुक्तगौरवस्य दुरुद्धरत्वाच्च । अत्र मान्यास्तु-- ___ तत्तत्पुरुषाणान्तत्त विषयाणाश्चानन्त्यात् कथं लाधवगौरवनिर्णय इतिविचिकित्सायां लाघवोपायप्रदर्शनम् । तत्तत्सङ्खयापरिमितपुरुषविषयसम्बन्धे लाधवम् । यथा दश पुरुषा दश विषयाश्चाध्यारूढाः । तत्र कार्यकारणभावविचारे लाघवानुगमः। समवायस्थ संसर्गत्वपक्षे समवायेन घटवद् द्रव्यमितिशाब्दबुद्धित्वावच्छिन्नम्प्रति घटो द्रव्यमित्याकारकं योग्यताज्ञानं समवायसम्बन्धेन कारणम् । एवमेव समवायेन पटो द्रष्यमित्याकारकशाब्दबुद्धित्त्वावच्छिन्नम्प्रति समवायेन पटो द्रव्यमित्याकारकं योग्यताज्ञानं कारणम् । तथा समवायेन मठो द्रव्यमित्याकारकशाब्दबुद्धित्त्वावच्छिन्नम्प्रति समवायेन मटो द्रव्यमित्याकारकं योग्यताज्ञानं कारणम् । तथा समवायेन कटो द्रव्यमित्याकारकशाब्दबुद्धिन्वावच्छिन्नम्प्रति समवायेन कटो द्रव्यमित्याकारकं योग्यताशानङ्कारणम् ।
पवम्प्रकारेण दश विधपुरुषविशेष्यका दशविधकार्यकारणभावास्सम्पद्यन्ते । एवञ्च यथा द्रव्यपदार्थायन्वयोग्यता घटादिपदार्थे तथैव पुरुषेष्वपि द्रव्यान्वययोग्यता निराबाधैवेति । समवायेन द्रव्यश्चैत्र इत्याकारकशाब्दबुद्धित्वावच्छिन्नम्प्रति द्रव्यञ्चैत्र इत्याकारकयोग्यताज्ञानं समवायेन कारणम् । एवम् द्रव्यम्मैत्रो द्रव्यं विष्णुमित्र इत्यादावपि पार्थक्येन विलक्षण एव कार्यकारणभावः सङ्कलने च विंशतिः कार्यकारणभावाः। धमितावच्छेदकतासम्बन्धेन शाब्दबुद्धित्त्वावच्छिन्नम्प्रति धर्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानकारणमिति मते तु धमितावच्छेदकतासम्बन्धेन चैत्रीयद्रव्यत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधे धर्मितावच्छेदकतासम्बन्धेन चैत्रीयद्रव्यत्वावच्छि. न्नाभेदसम्बन्धावच्छिन्नप्रकारताकयोग्यताज्ञानकारणम् । एवम् द्रव्यम्मैत्र इत्यत्रापि धर्मितावच्छेदकतासम्बन्धेन मैत्रीयद्रव्यत्वावच्छिन्नामेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधर्मितावच्छेदकतासम्बन्धेन मैत्रीयद्रव्यत्वावच्छिन्नप्रकारताकयोग्यताज्ञानङ्कारणम् । एवं रीत्या दशविधपुरुषप्रयुक्ता दशैव कार्यकारणभावा नतु विशेष्यदशमेदप्रयुक्ता अपि कार्यकारणभावाः ।
एवञ्च लाववस्य विद्यमानत्वात् धर्मितावच्छेदकतायाः प्रत्यासत्तित्वन्निर्विवादम् । एवञ्च द्रव्यत्वावच्छिन्नविशेष्यकत्त्यावच्छिन्नप्रकारकज्ञानवत् घटत्वावच्छिन्नप्रकारताकज्ञानत्वरूपकारणतावच्छेदकस्य प्रतीतिसिद्धस्य घटत्वावच्छिन्नप्रकारकघटत्वावच्छिन्नविशेष्यकज्ञानेऽपि वर्त्तमानत्वात् तद्घटितसमुदायस्यापि कारणसामग्रीत्वं सम्भवत्येवेति धर्मितावच्छेदकताप्रत्यासत्त्या घटत्वे घटत्वावच्छिन्नप्रकारकशाब्दबोधः कथन्नेतिग्रन्थाशयः इत्यूचुः। . समूहालम्बनत्वञ्च-नानामिनिष्ठविशेष्यतानिरूपितत्वविशिष्टनानाप्रकारताशालित्वविशिष्टमानत्वम्।