________________
व्युत्पत्तिवादः। धर्मितावच्छेदकतायास्तत्तत्कार्यतावच्छेद कसम्बन्धताविरहेपि द्रव्यत्वादिनिष्ठायास्तत्कार्यतावच्छेदकधर्मघटकत्वात् तादृशसामप्रथाश्चात्मनिष्टप्रत्यासत्त्या द्रव्यत्वाद्यवच्छिन्नविशेष्यकघटत्वाद्यवच्छिन्नाद्यभेदबुद्धित्व. रूपस्वोयकार्यतावच्छेदकावच्छिन्नोत्पत्तेरेव व्याप्यतया घटत्वादो धर्मितावच्छेदकतासम्बन्वेन घटत्वावच्छिन्नाभेदबोधापादकत्वं न सम्भवतीति वाच्यम् ?
तत्कार्यतावच्छेदकसम्बन्धताविरहेऽपोति ।
आत्मनिष्ठसमवायस्यैव तादृशकार्यतावच्छेदकत्वात् द्रव्यत्वनिष्ठाया धर्मितावच्छेदकतायास्तत्कार्यतावच्छेदकधर्मघटकरवात् । अयमभिप्रायः।
यद्यपि पर्वतो वह्निमानित्यादौ वयवयवेषु वढयत्पत्तौ चिकीर्षितायां समवायसम्बन्धस्यैव कार्यतावच्छेदकसम्बन्धत्वन्न तु संयोगस्येति । तथापि कार्यतावच्छेदकम्बन्धत्वाऽभावेऽपि कार्यतावच्छेदकधर्मधटकत्वं संयोगस्याऽस्त्येवेति । किञ्च समवायसम्बन्धेन वह्वयत्पत्तौ संयोगस्य कार्यतावच्छेदकसम्बन्धत्वाऽभावेऽप्यन्यत्र पर्वतादौ वहृयुत्पत्तौ पर्वतानुयोगिकवहिप्रतियोगिककार्यतावच्छेदकसम्बन्धत्वमस्त्येव । ___ एवञ्च प्रकृतेऽपि द्रव्यं घट इत्यत्राऽभेदान्वयबोधे जननीये समवायस्यैव कार्यतावच्छेदकसम्बन्धत्वन्नतु धर्मितावच्छेदकतायास्तथापि द्रव्यत्वनिष्ठाया धर्मितावच्छेदकतायाः कार्यतावच्छेदकधर्मघटकत्वमस्त्येव, विषयतारूपा धर्मितावच्छेदकता द्रव्यत्वनिष्ठा स्वनिरूपितविषयितासम्बन्धेन शाब्दबोधे शाब्दबोधत्वस्येवोक्तधर्मितावच्छेदकतावैशिष्टयस्याऽपि सत्त्वात् अभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधत्वमेव कार्यतावच्छेदकन्तथापि स्वनिरूपितविषयितासम्बन्धेन धर्मितावच्छेदकत्वन्तत्र वरीवत्येव ।
नन्वात्मनि विद्यमाना द्रव्यत्वावच्छिन्नोपस्थितियोग्यताज्ञानादिघटिता सामग्री स्वीयकार्यतानवच्छेदकधर्मितावच्छेदकतासम्बन्धेन घटत्वेऽप्यभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधं कथन्नोत्पादयतीति चेन्न ? घटत्वे धर्मितावच्छेदकतासम्बन्धेन जायमानघटप्रकारकाऽभेदबुद्धित्वस्य कार्यतावच्छेदकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वघटकत्वाऽभावात् । द्रव्यं घट इत्यत्र तु द्रव्यत्वे विद्यमानधर्मितातावन्छेदकताया एव कार्यतावच्छेदकधर्मघटकत्वेन तवेष्टवोधस्य निर्विवादत्वात् ।
न च द्रव्यत्त्वावच्छिन्नोपस्थितियोग्यताज्ञानादिघटिता या सामग्री तत्कार्यतायकार्यतावच्छेदकसम्बन्ध इति-येन सम्बन्धन कार्यस्योत्पत्तिर्भवति स एव सम्बन्धः कार्यतावच्छेदकत्वेन व्यवहियते । यथा समवायसम्बन्धन घटकार्य कपाले उत्पद्यते इति कार्यतावच्छेदकस्सम्बन्ध इह समवायः, घटखावच्छिन्ना कार्यता च समवायसम्बन्धावच्छिन्नेति ।