________________
११९
शास्त्रार्थंकलोपस्कृतः ।
योग्यताज्ञानस्य धर्मितावच्छेदकं निवेश्य तद्भेदेन अनन्तकारणताकल्पनमपेक्ष्य लाघवाद्धर्मितावच्छेदकतासम्बन्धेन शाब्दबुद्धौ ताहशसंबन्धेन धर्मितावच्छेदकमनिवेश्य हेतुता कल्पनस्यैव युक्तत्वात् । घटत्वादिधर्मितावच्छेदक घटत्वाद्यवच्छिन्न प्रकारकयोग्यताज्ञानबलादेय धर्मितावच्छेदकतासम्बन्धेन तदापत्तेः ।
च्छेदकं घटत्त्वावच्छिन्न विशेष्यताकशाब्द बुद्धित्वमेवं स्वीकारे घटत्त्वनिष्ठधर्मितावच्छेदकतायारस्वीयकार्यतावच्छेदकधर्मघटकत्वं स्यादेवेति वाच्यम् १ व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्य्योत्पादकसामग्रया अपेक्षेति यत्तच्छब्दप्रवेशः । यद्धर्मावच्छिन्नकार्यत्वावच्छिन्नम्प्रति यद्धर्मावच्छिन्नसामग्रथा व्याप्यत्वं स कार्यतावच्छेदकमिति फलति । द्रव्यत्त्वावच्छिन्नविशेष्यता घटत्वावच्छिन्नविशेष्यता अन्येतिकार्यतावच्छेदकभेदान्नापत्तिरिति वर्णनात् । अनन्तकारणता कल्पनमपेक्ष्येति ।
एव धर्म
स्तर सामग्रयाः
अन्या
नच धर्मितावच्छेदकातासम्बन्धेनैव यदि कार्यकारणभावस्तर्हि यस्य पुरुषस्य घटो द्रव्यमितिवाक्ये द्रव्यत्वावच्छिन्न विशेष्यकयोग्यताज्ञानन्तदपेक्षयाऽन्यस्य पुरुषस्याऽपि तेनैव योग्यताज्ञानेन शाब्दवोधाऽपत्तिरिति वाच्यम् १ कार्यकारणतावच्छेदककोटौ तत्तत्पुरुषीयत्वस्य निवेशेन दोषाऽभावस्तत्पुरुषीयत्वावच्छिन्न विषयकशाब्दबुद्धित्वावच्छिन्नम्प्रति तत्पुरुषीययोग्यताज्ञानं कारणमिति न पुरुषान्तरस्य शाब्दबोध इति कल्पनात् । नच उत्तद्विषयाणान्तत्तत्पुरुषाणाञ्चानन्तत्वेनाऽपरिमितकार्यकारणभावाऽपतौ महद् गौरवमिति वाच्यम् १ देवदत्तादिदशपुरुषान् घटादिदशविषयानहञ्जानामीत्यादौ देवदत्तादिदशपुरुषविषयकघटादिदशविषयविषयक ज्ञानवानहमित्येव शाब्दबोधस्तत्र दशैव पुरुषा दशैव विषयाश्चैवञ्चात्मनिष्ठप्रत्यासत्या कार्यकारणभावे स्वीकृते तत्तत्पुरुषत्वस्याऽपि धर्मितावच्छेदकत्वसम्भवोऽस्त्येवेति दशसंख्याका एव कार्यकारणभावाः । घटादिविषयनिष्ठघटत्वादिधर्मस्यैव धर्मितावच्छेदकत्वेन घटादिविषयाणाम्भिन्नत्वेन धर्मितावच्छेदकभेदाद्दश कार्यकारणभावा इति विंशतिः कार्यकारणभावाः । धर्मितावच्छेदकनिष्ठप्रत्यासत्त्या, अर्थाद्धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे स्वीक्रियमाणे तु तत्तत्पुरुषीयत्वस्य तत्तत्पुरुषभेदेन भिन्नत्वाद्दशैव कार्यकारणभावा इति दशकार्यकारणभावस्वीकारेण महल्लाघवमितिवर्णनात् ।
अत्र केचिन्मान्याः ।
तत्तद्वाक्यार्थे यथा धर्मितावच्छेदकताप्रत्यासच्या कार्यकारणभावस्तथा विनिगमनावैकल्येन प्रकारतावच्छेदकताप्रत्यासत्त्याऽपि कार्यकारणभावो भवेत् । यथैकैकस्मिन् प्रकारे विशेष्यदशकत्वन्तथैवैकस्मिन् विशेष्ये प्रकारदशकत्वमेवैवञ्च धर्मितावच्छेदकतासम्बन्धेन यथा कार्यकारणभावस्तथा प्रकारतावच्छेदकतासम्बन्धेनाऽपीति न गौर