________________
१२०
व्युत्पत्तिवादः ।
न च योग्यताज्ञानस्य धर्मिताबच्छेदकनिष्ठ प्रत्यासत्या
तुपगमे
वानुसन्धानमिति ग्रन्थाशयमाहुः ।
आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे श्रात्मनामनन्तत्वाद् गौरवं लाघवाद्धर्मितावच्छेदकनिवेशं विनैव विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावञ्चिकीषु' रापत्तिम्पुनरपि दर्शयति धर्मितावच्छेदकर्मानिवेश्येति । नच योग्यताज्ञानस्येति ।
अयमाशयः, यदि योग्यताज्ञानस्य शाब्दबोधम्प्रति हेतुत्वन्धर्मितावच्छेदकतास'म्बन्धेनैवेति कथ्यते तर्हि घटः प्रमेय इत्यादौ धर्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकश्शाब्दबोध तादृशयोग्यताज्ञानबलादेव द्रव्यत्वावच्छिन्नोपस्थित विनैव धर्मितावच्छेदकतासम्बन्धेन घटो द्रव्यमित्यत्र शाब्दबोचापत्तिस्स्यादित्याशयेनाशङ्कते स्वात । विषयनिष्ठप्रत्यासच्या नैव कार्यकारणभाव इति प्रश्नकत्तु रभिप्रायः । द्रव्यं घट इत्यत्र शाब्दबोधे घटत्वं घटे प्रकारो घटश्व द्रव्ये प्रकारः द्रव्यत्वञ्च द्रव्ये प्रकारः द्रव्यमेव विशेष्यम् । प्रकारताविशेष्यतयोनिरषच्छिन्नत्वेनोपस्थितौ प्रकारतावच्छेदकत्वेन विशेष्यतावच्छेदकत्वेन च यद्यपि कस्यचिदपि पदार्थस्य प्रतीतिर्न भवति तथापि द्रव्यप्रकारतयोपस्थितत्वात् द्रव्यत्वस्य प्रकारतायां भानम्भवत्येव तदेव दूव्यत्वं शाब्दबोधेऽपि व्यप्रकारतया भासते । तथाच दव्यत्वनिष्ठा प्रकारता समानप्रकारतया प्राप्नोत्येवेति समानप्रकारतासम्बन्धेनोपस्थितेः कारणत्वात् दूव्यत्वे प्रकारतासम्बन्धेनोपस्थितिशाब्दबोधयोरुभयोरसत्त्वेनोप
स्थितेरकारणत्वमुपस्थितिराहित्यस्याऽकिञ्चित्करत्वञ्च नास्तीति समाधानम् । प्रकारतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति प्रकारतासम्बन्धेनोपस्थितिः कारणमिति कार्यकारणभाव इति फलितार्थः । समानप्रकारताप्रत्यासत्या पदार्थोपस्थितेश्शाब्दबोधे हेतुत्वो पगमादिति ।
ननु घटो दूव्यमित्याकारकशुद्ध केवलयोग्यताज्ञानादेव प्रमेयत्वे शाब्दबोधो जायतेतराम् । एवञ्च स्वन्तघटपदसमभिव्याहृतस्वन्तद्रव्यपदस्वरूपाकाङ्क्षाज्ञानस्य न कारपणत्वन्न तत्सहकारित्वम् । तथाच दूव्यले पूर्वोक्तशाब्दबोधाऽपत्तिदु वरैवेति चेन्न १ सामान्यं विशेषसहितं विशेषरहितसामान्याऽभावात् । एवञ्च निर्विशेषसामान्याभावेन तत्तद्धर्मावच्छिन्न कार्योत्पत्तित्वावच्छिन्नम्प्रति स्वीकार्यतावच्छेदकसंबन्धावच्छिन्नतत्तद्धर्मावच्छिन्नकार्याधिकरणे तत्तद्धर्मं व्याप्ययत्किञ्चिद्धर्मावच्छिन्नकारणानि कार्य - प्राक्क्षणावच्छेदेनापेच्यन्त इतिनियमानुरोधेन केवलयोग्यताज्ञानस्य न कारणत्वम् अपितु घटत्वावच्छिन्न प्रकारतानिरूपितद्रव्यत्वावच्छिन्न विशेष्यताकशाब्दबुद्धित्वावच्छिन्नम्प्रति घटो दूव्यमितिस्वन्तघटपदसमभिव्याहृतस्वन्तद्व्यपदत्वरूपाकाङ्गाज्ञानस्या'पि हेतुत्वेनोक्कापत्तिवारणात् ।
इव