________________
शास्त्रार्थकलोपस्कृतः
१२१ द्रव्यत्वावच्छिन्नस्य पदादनुपस्थितत्वेपि द्रव्यत्वादौ ताशप्रत्यासत्या प्रत्यासन्नयोग्यताज्ञानात्तत्र सादृशप्रत्यासत्त्या शाब्दबोधापत्तिः। आत्मनिष्ठप्रत्यासत्त्या हेतुभूतां द्रव्यत्वाद्यवच्छिन्नोपस्थितिमन्तरेणापि ताह. शप्रमेयत्वाद्यवच्छिन्नोपस्थित्यादिदशायां प्रमेयत्वादौ धर्मितावच्छेद. कतासम्बन्धेन ज्ञानस्य फळजनकत्वात्तादृशद्रव्यत्वाद्यवच्छिन्नोपस्थितिविरहस्याकिंचित्करत्वाहिति वच्यम ?
नन्वेवमपि घटः प्रमेय इतिस्वन्तघटपदसमभिव्याहृतस्वन्तप्रमेयपदत्वरूपाकाङ्क्षाज्ञानकालावच्छेदेनाऽपि द्रव्यत्वे शाब्दबोधाऽपादनन्दुरिमेव । तथाहि घटत्वावच्छिन्नप्रकारतानिरूपितप्रमेयत्वावच्छिन्नविशेष्यताकशान्दबुद्धित्वस्याऽपि व्याप्यत्वेन पूर्वोक्ताकाङ्क्षाज्ञानस्य निरुक्तकारणत्वव्याप्त्या तदवच्छिन्नकारणत्वादिति चेन्न ? द्रव्यत्वे प्रकारतयोपस्थितेरभावेनाऽपत्तिवारणसौष्ठवात् । . ननु घटः प्रमेय इति वाक्योच्चारणानन्तरं घटो घटपदवाच्यः प्रमेयः प्रमेयपदवाच्य इति रीत्या शक्ति ज्ञानकालावच्छेदेनाकाशाज्ञानबहिर्भूतकेवलापदनिष्ठवृत्तिज्ञानजन्यद्रव्योपस्थितिकालावच्छेदेनैव द्रव्यत्वज्ञानेन तदानीमेव द्रव्यत्वे शाब्दबोध आपद्येतेति चेन्न ? शक्तिशानकालीनपदनिष्ठशक्तिज्ञानजन्योपस्थितिकारणतावच्छेदककोटावपि विशेषरूपेण तत्तत्पदानान्निवेशः । एवञ्च घटः प्रमेय इति वाक्यीयशक्तिज्ञानकाले प्रमेयपदसत्ता कारणत्वेनापेक्ष्यते। घटो द्रव्यमित्यत्र तु द्रव्यपदसत्ताऽपेक्ष्यते । एवञ्च घटः प्रमेय इति ज्ञानाद् द्रव्यत्वे शाउदबोधवारणस्य सुगतत्वात् ।
नच विशेषतः कारणतावच्छेदककुक्षौ तत्तत्पदप्रवेशे घटो द्रव्यमित्यत्र घटत्त्वावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्त्वमेव तव्याप्यमतस्तदवच्छिन्नकारणसामग्रया द्रव्यपदनिष्ठशक्तिज्ञानजन्योपस्थितिसहकृतघटो द्रव्यमित्या. कारकाकाङ्काज्ञानघटितत्वेन घटी घट इत्यत्र कथमप्यसम्भवात्कथं घटो द्रश्यमितिधमितावच्छेदकतासम्बन्धेन घटत्वे आपत्तिप्रदर्शनपरो मूलग्रन्थस्सङ्गच्छत इति वाच्यम् ? घटपदजन्यद्रव्यत्वावच्छिन्नोपस्थितिसहकृतघटी घट हत्याकारकाकाङ्क्षाज्ञानघटितसमुदायस्यैव सामग्रीत्वमत एव नियमेन तत्सामग्रथा घटपदलक्षणाज्ञानजन्योपस्थितिघटितत्वमेव । एवञ्च घटो द्रव्यमित्याकारकाकाङ्क्षाशानस्य द्रव्यपदलक्षणाज्ञानजन्योपस्थितिसहकृतस्य प्रमेयस्वे शाब्दबोधजनकत्ववत्तद्घटितसामग्रीकालावच्छेदेन घटत्वेऽपि धर्मितावच्छेदकतासम्बन्धेनेतिनिरुक्तमुद्रयापत्तिसम्भवेन मूलग्रन्थसौष्ठयात् । . नचोपस्थितिकारणतावच्छेदकदले विशेषरूपेण तत्तत्पदानान्निवेशे कार्यतावच्छे. दकदलीयव्यभिचार निवृत्त्यर्थन्तत्तदुपस्थित्यव्यवहितोत्तरत्वनिवेशस्यावश्यकत्वेन योग्यताज्ञानकार्यतावच्छेदकावच्छिन्नव्यापकता तदवच्छिन्नस्य नैव सम्भवतीति येन सम्बन्धेनेतिग्रन्थानुपपत्तिरिति वाच्यम् १ सर्वत्रैव वाक्ये द्रव्यत्वपमेयत्वाभिधेयत्वादी धर्मितावच्छेदके शक्तिलक्षणान्यतरज्ञानजन्यद्रव्यपदप्रयोज्यद्रव्यत्वप्रमेयत्वोप