________________
व्युत्पत्तिवादः
समानप्रकारताप्रत्यासत्या
पदार्थोपस्थितेः शाब्दबोधे हेतुत्वोपगमात् | येन सम्बन्धेन यद्धर्मावच्छिन्नकार्य प्रति येन सम्बन्धेन यद्धर्माषच्छिन्नकार्यस्य व्यापकता तेन सम्बन्धेन तद्धर्मावच्छिन्नकार्योत्पादकसामग्रथा अपि तेन सम्बन्धेन तद्धर्मावच्छिन्न कार्योत्पत्तावपेक्षिततया प्रकारतासम्बन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थोपस्थित्यसत्त्वे तत्र धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधापत्तेरयोगात् ।
स्थित्यव्यवहितोत्तरशान्दबुद्धे विद्यमानत्वेन व्यापकत्वाऽक्षतेः।
१२२
नच शक्तिलक्षणाज्ञानजन्योपस्थितौ परस्परं व्यभिचारवारणाय तत्तदव्यवहितोतरत्वनिवेशः परन्तु वृत्तित्वेनानुगमः तद्विषयकशाब्दबोधम्प्रति तत्पदनिष्ठवृत्तिज्ञानाघीनोपस्थितिः कारणमिति न कार्यकारणभावद्वयन्नाऽपि व्यभिचार इति वाच्यम् ? वृत्तित्वस्यानुगतानतिप्रसक्तस्य दुर्वचत्वेन घटपदनिष्ठशक्तिज्ञानजन्योपस्थित्यव्यवहितोतरजायमानघट विषयकशाब्दबोधम्प्रति घटपदनिष्ठशक्तिज्ञानङ्कारणम् । गङ्गापदनिष्ठलक्षणाज्ञानजन्योपस्थित्यव्यवहितोत्तरजायमानगङ्गापदशक्यसम्बन्धितीर विषयकशाब्दबोध
प्रति
गङ्गापदनिष्ठलक्षणाज्ञानाधीनोपस्थितिः कारणमिति समाधानातिरिक्तसमाधानाऽभावादव्यवहितोत्तरत्वनिवेशस्य गरीयस्त्वात् इत्यलम् ।
ननु धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे जननीये प्रकारतासम्बन्धेन द्रव्यत्वोपस्थिते सत्यपि सम्भवे कथङ्कारमुपयोग इत्याशङ्कय विस्पष्टयति येन सम्बन्धेनेति । अस्यायमाशयः, अधिकदेशवृत्तित्वं व्यापकत्वम् अल्पदेशवृत्तित्वं व्याप्यत्वम्. द्रव्यं घट इत्यत्र विशेष्यता केवलद्रव्य एवास्ति प्रकारता तु घटे घटत्वे द्रव्यत्वे च त्रिष्वेवास्ति एवञ्च प्रकारतासम्बन्धेन शाब्दबोधस्य घटघटत्वद्रव्यत्वेषु विद्यमानत्वादधिकदेशवृत्तित्वेन व्यापकत्वं धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधस्तु द्रव्यत्वमात्रेऽस्तीति तस्य व्याप्यत्वम् । व्याप्यधर्मावच्छिन्ने कार्ये जननीये तु व्यापकधर्मावच्छिन्नकायत्पादक सामग्रया अपेक्षेति नियमः । सामान्यधर्मावच्छिन्नस्य शाब्दबोधत्वस्य हि व्यापकत्वम् ।
येन सम्बन्धेन यद्धर्मावच्छिन्नकाय्र्यम्प्रति इति ।
यद्धर्मम्प्रति यस्य धर्मस्य व्यापकत्वन्तद्धर्मावच्छिन्नकार्थतावच्छेदकसम्बन्धेन तद्वर्मावच्छिन्नकार्योत्पत्तित्वावच्छिन्नम्प्रति तद्धर्मावच्छिन्नकार्यतावच्छेदकसम्बन्धेन कारणतावच्छेदकसम्बन्धेन वा तद्धर्मावच्छिन्नसामग्री अपेक्ष्यत इत्याकारवर्णनेन निर्वाह येन सम्बन्धेनेत्यादिकथनं कार्यकारणतावच्छेदकसम्बन्धसूचनायैव । इह व्यापकताघटकाभावश्च तद्धर्मावच्छिन्नाधिकरणे तद्धर्भावच्छिन्नोत्पत्तिकालावच्छेदेन विद्यते योऽभासस्स एव । अत एव संयोगत्वावच्छिन्नकार्यत्वावच्छिन्नम्प्रति विभागत्वावच्छिन्नस्योत्पत्तिकालावच्छिन्नत्वाऽभावेन व्यापकत्त्वाभावात्संयोगोत्पत्तौ विभागसामग्रया नापेक्षेति सार्वजमीनः पन्थाः ।