________________
शास्त्रार्थकलोपस्कृतः
१२३ नच यत्र प्रमेयत्वाद्यवच्छिन्नविशेष्यकवृत्तिज्ञानजन्यप्रमेयत्वाद्यव. च्छिन्नविशेष्यकोपस्थितावेव उद्वोधकान्तरात् द्रव्यत्वाद्यवच्छिन्नस्य भानं तत्र द्रव्यत्वाद्यवच्छिन्नविषयकशाब्दापत्तिवारणाय तद्धर्मावच्छिन्नविशेध्यकशाब्दबोधं प्रति तद्धर्मावच्छिन्नविशेष्यकवृत्तिज्ञानजन्यतद्धर्मप्रकारकपदार्थोपस्थितेहतुता वाच्या, तथा च प्रकारविशेषनिवेशस्यावश्यकत्वे विषयनिष्ठप्रत्यासत्या हेतुताकल्पनमयुक्तम् । तथा सति पुरुषभेदेन कार्यकारणभावबाहुल्यप्रसङ्ग इति वाच्यम् ? स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्ट प्रकारतासम्बन्धेनोपस्थितेहेतुतां स्वीकृत्य ताहशापत्तेर्वारणात् ।
ननूत्पत्तिकालावन्छेदेन घटनिष्ठपाकजरूपत्वावच्छिन्नम्प्रति एको निष्पन्नो भविष्यतीति हृदि निधाय घटगतैकत्वसख्याप्रवेशस्याऽवश्यम्भावाद् घटगतैकत्वसं. ख्याया अपि व्यापकत्वाऽपत्त्या पाकजरूपत्वावच्छिन्नकार्यत्वावच्छिन्नम्प्रत्यपि संख्यारूपसामग्रथा अपेक्षितत्वाऽपत्तिरिति चेन्न ? तदभावाऽप्रतियोगित्वोत्पत्तिकालावच्छि. नस्वाधिकरणताकत्वस्यैव प्रकृते समाश्रयणात् । ___ घटत्वावच्छिन्नप्रकारकाऽभेदसम्बन्धावच्छिन्नशाब्दबोधत्वावच्छिन्नस्य व्याप्यत्वम् । घटत्वरूपव्याप्यधर्मावच्छिन्नघटरूपकायें जननीये द्रव्यत्वरूपव्यापकधर्मावच्छि. नकार्योत्पादकसमवायिकारणसमवधानादिरूपसामग्रथा एवापेक्षा । प्रकृते च अभेदसंसर्गकघटत्वावच्छिन्नप्रकारकशाब्दबोधत्वरूपव्याप्यधर्मावच्छिन्ने कायें जननीये शुद्धशाब्दबोधत्वरूपव्यापकधर्मावच्छिन्नकार्योत्पादिका या सामग्री (प्रकारतासम्बन्धेनोपस्थि. तिः) तस्या एवापेक्षा भवति । एवञ्च प्रकारतासम्बन्धेन दव्यत्वे व्यपदजन्योपस्थित्यभावे धर्मितावच्छेदकतासम्बन्धेनाऽपि दव्यत्वे शाब्दबोधो न भवतीति प्रकारतासम्बन्धेन शाब्दबोधे उपस्थितेः कारणत्वस्वीकारस्यावश्यकत्वात् । ननु सुन्दरो घटो नील इत्यादी सुन्दररूपपदार्थे प्रकारतासम्बन्धेनोपस्थित्यभावाद्धर्मितावच्छेदकतासम्बन्धेन कथं शाब्दबोध इति चेन्न ? तादृश्यास्सामग्रथा निरवच्छिन्नधर्मितावच्छेदकतासम्बन्धेन शान्दबोधम्प्रत्येव कारणत्वेनात्र सुन्दरत्वावच्छिन्नत्वेनाऽदोषात् । • प्रकारतासम्बन्धेनोपस्थितेः कारणत्वस्वीकारे दूषणमाह नच यत्र प्रमेयत्वा. द्यवच्छिन्नेति । इदन्तात्पर्य्यम्, यदि समानप्रकारताप्रत्यासत्योपस्थितेश्शाब्दबुद्धिस्वावच्छिन्नम्प्रति कारणत्वमङ्गीक्रियते तदा प्रमेयपदेन प्रमेयत्वावच्छिन्नविषयकोपस्थितिरुद्बोधकान्तराद् द्रव्यत्वावच्छिन्नविषयकोपस्थितिरपि समूहालम्बनात्मकप्रमेयदव्योपस्थितौ प्रमेयपदजन्यत्वेन । पदजन्यताऽपि प्रमेयस्य विशेष्यत्वेन द व्यस्य प्र. कारत्वात्प्रकारतासम्बन्धेनोपस्थितिरपि, तच्छाब्दबोधवारणाय तद्धविच्छिन्नविशेव्यकवृत्तिशानजन्यतद्धर्मप्रकारकपदार्थोपस्थितिः कारणमितिरीत्या तत्पुरुषीयत्वनिवेशेन कार्यकारणभावे गौरवं स्यादित उत्तरमा स्वजनकज्ञानीयेति । अत्र स्वपदेनो