________________
.
व्युत्पत्तिवादः तदव्यक्तिरित्युभयभेदाश्रयणेनाऽपि दोषः, प्रतियोगितावच्छेदकतायास्तव्यक्तित्वपप्तित्वाऽभावात् । अस्मिन्विचारे पर्याप्तिनिवेशप्रकारी योजनीय एवेत्यस्मद्गुरवः । एकमात्रवृत्तित्वमिति-- भेदविशिष्टान्यत्वमेकमात्रवृत्तित्वम वैशि० स्वसामानाधिकरण्य स्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन । अत्र स्वपदेन मेदः नीलघटव्यक्तिभेदस्त
सामानाधिकरण्यन्द्रभ्यत्वे इत्येकः, स्वन्नीलघटव्यक्तिभेदस्तत्प्रतियोगिनी नील घटव्यक्तिस्तवृत्तित्वमपि द्रव्यत्वे । एवञ्चोभयसम्बन्धेन भेदविशिष्टन्द्रव्यत्वमेव । तदन्यत्वञ्च तद्व्यक्तित्बेऽर्थात्तन्नीलघटव्यक्तिवृत्तितव्यक्तित्व इत्यभिप्रायः । किञ्च एकस्मिन् घटे योऽन्यघटव्यक्तिभेदस्स एव स्वपदेन मृह्यते तत्सामानाधिकरण्यन्तत्प्रतियोगिवृत्तित्वञ्च घटत्वे इति भेदविशिष्टं घटत्वन्तदन्यत्वश्च तद्व्यक्तित्व इति । सम्बन्धनिवेशफलजिज्ञासायां स्वप्रतियोगिवृत्तित्वस्यैव सम्बन्धत्वे तु स्वन्नीलघटव्यक्तिभेदस्तत्प्रतियोगिनी नीलघटव्यक्तिस्तवृत्तित्वन्तद्व्यक्तित्वे इति भेदविशिष्टमेव तद्व्यक्तित्वमतस्स्वसामानाधिकरण्यमितिनिवेशः। अस्मिन् सम्बन्धे तु स्वन्नीलघटव्यक्तिस्तत्सामा. नाधिकरण्यन्तद्व्यक्तित्वे नास्ति नीलघटव्यक्तिभेदवति पटादौ तद्व्यक्तित्वस्याऽभावात् । स्वसामानाधिकरण्यस्यैव सम्बन्धवे तु स्वपदेन पटादिभेदस्तत्सामानाधिकरण्यन्तव्यक्तित्वे इति भेदविशिष्ट मेव भवतीति स्वप्रतियोगिवृत्तित्वनिवेशः । एवञ्च स्वम्पटादिभेदस्तत्प्रतियोगी पटादिस्तवृत्तित्वन्तव्यक्तित्वे नास्तीति । एक घटगततद्व्यक्तित्वम्प्रतियोगि अपरं घटगतद्व्यक्तित्वमनुयोगि । नच प्रतियोगित्वेनाश्रीय. माणघटगततदव्यक्तित्वं कालिकसम्बन्धैन अनुयोगिघटगततत्व्यक्तित्वे वर्तत एव तथा अनुयोगिधटगततव्यक्तित्वं कालिकसम्बन्धेन प्रतियोगिघटगततद्व्यक्तित्वे वर्तते इति भेदविशिष्टमेव तद्व्यक्तित्वमिति वाच्यम् १ स्वरूपसम्बन्धावच्छिन्नाया वृत्तिताया ग्रहणेनाभीष्टसिद्धेः।
इति परीक्षालेखप्रकारः ।
अथ शास्त्रार्थप्रकारः। नच वृत्तितायां स्वरूपसम्बन्धावच्छिन्नत्वनिवेशे समवायसम्बन्धेन तत्र तत्तव्यक्तौ वृत्तित्ववतों घटत्वस्य भेदविशिष्टत्वानाऽपत्तौ भेदविशिष्टान्यत्वेनान्यनीलघटतात्पर्येणाऽपि बोधनार्थन्नीलो घट इति वाक्यस्याऽपि प्रामाण्यं स्यादिति वाच्यम् ? कालिकसम्बन्धातिरिक्तसम्बन्धावच्छिन्ना या वृत्तिता तस्या एव निवेशेनोक्तस्थले समवायेन वृत्तित्ववतो घटत्वस्य भेदवि'शष्टत्वमेव न तद्भिन्नत्वमिति तादृशवाक्यस्याऽप्रामाणिकत्वे निरोधकाऽभावात् । न चैवमपि भक्षितेऽपि लशुने न शान्तो व्याधिरितिन्यायेन धटगततव्यक्तित्वविषयकज्ञानप्रतियोगिको यो भेदो घटे तद्विशष्टत्वमेव घटगततद्व्यक्तित्वे विषयितासम्बन्धेन तस्य प्रतियोगिनि ज्ञाने स्वरूपसम्बन्धेनानुयोगिनि घटे विद्यमानत्वात् विषयितास्वरूपसम्बन्धयोर्द्वयोरपि कालिक-. सम्बन्धभिन्नत्वाद् भेदविशिष्टत्वमेव घटगततत्व्यक्तित्वे न तदन्यत्वमिति बाच्यम् ।