________________
शास्त्रार्थकलोपस्कृतः तच्च स्ववृत्त्यसाधारणो धर्मः । असाधारण्यं च एकमात्रवृत्तित्वम् । इदन्तादात्म्यम् स एवायमिति तत्त्वप्रत्यभिज्ञावत् नीलो घट इत्यत्र घटे नीलतादात्म्यम्भासते नीलतादात्म्यवान्धट इति शाब्दः ।
तच्चेति । तत्पदेन तादात्म्यं गृह्यते । स्ववृत्तीति । अत्र स्वपदेन घटो गृह्यते घटवृत्ति यन्नीलतादात्म्यन्तद् घटस्य असाधारणो धर्मः। तस्य नीलतादात्म्यस्य तद्घटव्यक्तिमात्रवृत्तित्वात् । एक व्यक्तिमात्रवृत्तिधर्म एवाऽसाधारणधम्मः। असाधारण्यकमात्रवृत्तित्त्रमिति ।
अत्रैकमात्रवृत्तित्वन्नाम एकवृत्तित्वे सत्येकेतराऽवृत्तित्वम् । परन्तु एकत्वपदार्थस्य सर्वत्र संघटनीयत्वेन केवलान्वयित्वादेकेतरस्याप्रसिद्धया एकत्वस्याऽप्यप्रसिद्धत्वात् । अत एव परिष्कारनिबन्धः स्वसामानाधिकरण्येति । अत्र स्वपदेन भेदो गृह्यते एतद्घटव्यक्तावन्यघटव्यक्तेर्भेदः प्रसिद्धः तत्प्रतियोगिवृत्तिता तत्सामानाधिक. रण्यञ्च घटस्वे तथान्यधमें च, भेदविशिष्टो घटत्वादिधर्मस्तद्भिन्नत्वन्तद्धटव्यक्ताविति समन्वयः। नच कालिकसन्बन्धेन प्रतियोगित्वेनाश्रीयमाणतद्घटव्यक्तेरप्यनुयोगिनि पदार्थे विद्यमानत्वेनैवं कालिकेनैव सम्बन्धेनानुयोगित्वेनाश्रीयमाणतद्घटव्यक्तरपि प्रतियोगिनि विद्यमानत्वेन तद्घटव्यक्तित्वम्भेदविशिष्टमेवेति कथङ्कार समन्वय इति वाच्यम् १ स्वरूपसम्बन्धावच्छिन्नवृत्तितायास्संसर्गाशे निबेशनीयत्वेन कालिकेन दोषदानस्याऽनुचितत्वात् । नत्त समवायसम्बन्धेन वृत्तित्ववतां घटत्वादिपदार्थानां हि भेदविशिष्टान्यत्वाऽपत्त्या नीलो घट इति वाक्यस्य भिन्ननीलघटपरनीलपदघटितस्याऽपि प्रामाण्याऽपत्तिरिति वाच्यम् ? कालिकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नवृत्तिताया निवेशादिनाऽक्षतेः । नचोक्तसम्बन्धस्य वृत्त्यनियामकत्वेन ज्ञाने घट इति व्यवहारसिद्धेन भेदविशिष्टान्यत्वमत्यन्तमप्रसिद्धमेवेति वाच्यम् ? भेदविशिष्टान्यघटकवृत्तित्वस्य स्वरूपसम्बन्घावच्छिन्नस्यैव ग्रहणेनादोषात् । नन्वभावाऽभावस्याऽधिकरणस्वरूपत्वेन घटे यो हि पटत्वाऽभावस्तत्र यो घटभेदस्तस्याऽभावात्मकत्वमेवैवञ्च घटगततद्व्यक्तित्वे घटभेदप्रतियोगिवृत्तित्वस्य तत्सामानाधिकरण्यस्य च सत्वेन तद्व्यक्तित्वेऽपि भेदविशिटत्वाऽपत्तिरिति । किञ्च स्वस्मिन्नपि पूर्वक्षणपरक्षणवृत्तित्वविशिष्टस्वभेदस्य विद्यमानत्वेन तव्यक्तित्वे तद्भेदविशिष्टत्वमस्त्येवेति तद्भिन्नत्वं सर्वथैवाऽप्रसिद्धमिति चेन्न ? धर्मविशिष्ठान्यत्वमेव हि एकमात्रवृत्तित्वम् वैशिष्टयञ्च स्वात्मकत्वस्वपर्यासावच्छेदकप्रतियोगितानिरूपकतावच्छेदकभेदत्वावच्छिन्नाधेय. तानिरूपिताधिकरणताश्रमवृत्तित्वोभयसम्बन्धेन । तद्व्यक्तित्वस्य भेदत्वस्याऽभावत्वस्य चाखण्डोपाधित्वं सार्वजनीनम् । अत एव नान्योन्याश्रयः । तद्व्यक्तिघटोभयन्न
अभावामावोऽधिकरणस्वरूप इति-नियमाकारश्चेत्थम् अभावप्रतियोगिकोऽभावाधिकरणकोडभावोऽधिकरणस्वरूपःयथा घटाभावनिष्ठो यःपटाभावभेदस्स घटाभावस्परूप:। सामनैयत्यात् प्रतीतिसिद्धोऽयनियम इति केचित् ।