________________
८८
व्युत्पत्तिवादः तिबोधो न भवत्यतो विशिष्टवैशिष्टयावगाहिबुद्धित्वावच्छिन्नम्प्रति विशेषणतावच्छेदकम कारकनिश्चयस्य कारणत्वमिति तत्त्वम् । द्वितीये विशिष्टबुद्धिसामान्यम्प्रति विशेषणज्ञानङ्कारणम् । विशेषणांशे प्रकारीभूतोऽपि धर्मों यत्र भासते तद्ज्ञानम्बिशिष्टवैशिष्टयाव गाहीति फलितार्थः । यस्मिन् ज्ञाने विशेष्ये विशेषणन्तत्रापि च विशेषणान्तरमिति रीतिर्भासते तद् ज्ञानमुपलक्षितवैशिष्टयावगाहीति फलितार्थः । आद्योदाहरणन्तु घटो नास्तीति । अत्र विशिष्ट स्य घटत्वविशिष्टस्य घटस्य स्वप्रतियोगिताकत्वसम्बन्धेन अभावे वैशिष्टथम्बिराजते, अभावे प्रतियोगितासम्बन्धेन प्रतियोगी घटो भासते प्रतियोगिनि घटे वर्तमानं घटत्वन्तु स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाऽभावेऽन्वेति । घटत्वस्याभावे स्वसमानाधिकरणप्रतियोगितासम्बन्धेनान्वयस्त्वनह एव । द्वित्वावच्छिन्नप्रतियोगिताकस्य अन्यतव्यक्तित्वावच्छिन्नप्रतियोगिताकस्य च घटाऽभावस्य घटसत्त्वेऽपि विद्यमानत्वाद् घटसत्वेऽपि घटो नास्तीतिबुद्धथापत्तेः । तथा च विशेषणतावच्छेदकावच्छिन्नायाः प्रतियोगिताया एव सम्बन्धत्वमतो घटत्वस्य नोपलक्षणत्वमि. ति । अभावो विशेष्यस्तत्र प्रतियोगी घटो विशेषणम् । घटत्वम्विशेषणतावच्छेदकतत्र विशेषणतावच्छेदकत्वमिति तत्त्वम् ।
द्वितीयोदाहरणन्तु गुणकर्मान्यत्वविशिष्टसत्तावान् गुण इति । अत्र गुणे सत्ताऽस्ति सत्तायान्तु गुणकर्मान्यत्वम्भासते नतु विशेष्यभूतगुणे गुणकर्मान्यत्वं गुणे गुणान्यत्वमसम्भवदुक्तिकमितिलौकिकप्रतीतेः। आद्यनियमानुसारेण गुणकर्मान्यत्वविशिष्टसतावद्रव्यमिति सुगतः प्रयोगः । मूले केवलम्विशेष्ये विशेषणमिति केवलपदोपादानेन क्वचित् प्रतियोगिप्रकारीभूतस्योपलक्षितवैशिष्टयावगाहित्वमेव नतु विशिष्टवैशिष्टयावगाहित्वन्तथाहि गन्धप्रागभाववान्नास्ति रक्तो दण्डो नास्ति पीती घटो नास्ति एषु प्रतियोगिपदार्थप्रकारीभूतगन्धप्रागभावरक्तत्वपीतत्वानामुपलक्षणत्वेनोपलक्षितवैशिष्टयावगाहित्वम् । नचैवम्विधाऽभावस्थलेऽपि यदि प्रकारीभूतधर्मस्योपलक्षणत्वन्तयुभयोः किम्वैलक्षण्यम्विशिष्टवैशिष्टयबोधमर्यादान्नातिशेत 'इतिसिद्धान्त'विरोधश्चेति वाच्यम् ? प्रतियोगिप्रकारीभूतपदार्थस्य विशेषणत्वमुपलक्षणत्वञ्चेति द्वयं सिद्धयति । परन्तु प्रतीतिकालिकप्रतियोगिप्रकारीभूतपदार्थस्य प्रतियोगिनि यदि वर्तमानत्वन्तदा तादृशप्रतियोगिप्रकारीभूतपदार्थस्य विशेषणत्वन्तेन तादृशस्थले विशष्टवैशिष्टयावगाहिबोध उपपद्यते । यथा घटो नास्तीति प्रतीतिकाले प्रतियो. गिप्रकारीभूतपदार्थस्य यदि प्रतियोगिन्यवत्त मानत्त्वन्तदा प्रतियोगिप्रकारीभूतपदार्थस्योपलक्षणत्वन्तेन तादृशस्थले उपलक्षितवैशिष्टयावगाहित्वमित्युभयो_लक्षण्यमुदा. हरणन्त्वभावस्थलीयमुक्तमेव । इति चेत् प्रकारस्तर्हि प्रकारान्तरमाह-अभेद स्तादात्म्यमिति । आत्मैवेदं सर्वमिति श्रुतिस्सचासावात्मेति तदात्मा तदात्मनः
उपलक्षणत्वमिति–विद्यमानत्वे सतीतरोपस्थापकत्वमुपलक्षणत्वम् ।