________________
-
शास्त्रार्थकलोपरकृतः
८७ प्रतियोगिताया अभावे प्रतियोगिनः सम्बन्धतया भानात् । अन्यथा विशिष्ट वैशिष्टयबुद्धित्वानुपपत्तेः। प्रतियोगिविशेषिताभावज्ञानं च विशिष्टधैशिष्टथबोधमर्यादानातिशेत इति दर्शनात्केवलं विशेष्ये विशेषणमिति रीत्या न कश्चिदभ्युपैतीति चेत् ? सत्यम् । अभेदम्तादात्म्यम् ।। खण्डितत्वान्नोपस्थितेः कथमप्यपेक्षा तथापि तात्पर्यज्ञानार्थमन्वयोपस्थितेरावश्यकत्वात् । नचाऽभेदादिसंसर्गस्य विशेष्यविशेषणभावविधयैव शाब्दबोधविषयत्वसम्भवात् नोपस्थितेरपेक्षेति वाच्यम् १ अपूर्ववाक्यार्थस्थले शाब्दबोधाऽव्यवहितप्राक्क्षणावच्छेदेन ज्ञानाभावाद् विशेष्यविशेषणज्ञानाऽभावेनोपस्थितेरावश्यकत्वात् । तात्पर्यबुद्धौ नीलविषयताविशिष्टज्ञानविषयकत्वमेव स्वीक्रियते । तत्र वैशिष्टयश्च स्वनिरूपितसांसगिकविषयतानिरूपितघटादिविषयताकत्वसम्बन्धेन । एवञ्च सांसर्गिकविषयतायाः प्रकारत्वाऽसम्भवेनेष्टोपपत्ते रित्यलम् । नच विभक्तयर्थेऽपोति ।
ननु भेदाऽभावो न विशेषणविभक्तरों विशिष्टोऽपि तु खण्डशश्शक्तिभेदेऽभावेच । एवञ्च विभक्तयर्थे भेदे नीलत्वेन तत्तन्नीलव्यक्तीनान्तत्तद्व्यक्तित्वावच्छिन्नप्रति. योगिकत्वसम्बन्धेनान्वयेन नीलो घटो भविष्यतीत्यादौ नापूर्वव्यक्त यभेदान्वयानुपपत्तिस्तत्तद्व्यक्तित्वस्य हि सम्बन्ध कुक्षावेव प्रवेशो नैव विभक्त्यर्थे प्रवेश इत्याशयेन शऋते नच विभक्त थर्थेऽपोति । तदुत्तरमाह विशेषणतावच्छेदकावच्छिन्नेति । अयमभिप्रायः,
घटो नास्तीत्यादी घटपदार्थस्य स्वप्रतियोगिताकत्वसम्बन्धेनान्वयः, घटत्वस्य च । स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन स्ववृत्तिघटस्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन वा । अत एव घटसत्त्वेऽपि प्रयागीयघटाऽभावतात्पर्येण घटो नास्तीति न प्रयोगः। प्रतियोगितायास्सम्बन्धकुक्षौ प्रवेशः प्रतियोगिता च प्रतियोगिविशेषणतावच्छेदकावच्छिन्नैवेति एतस्या एव सम्बन्धत्वेन भानं सार्वजनीनम् । प्रकृते पटतात्पर्यकनीलो घट इति वाक्ये भेदप्रतियोगि नीलत्वमेव विशेषणतावच्छेदकञ्च तदेव नतु तन्नीलव्यक्तित्वम् । तथाच नीलत्वावच्छिन्नप्रतियोगितायास्सम्बन्धत्वे नीलवस्य सर्वत्र घटपटादिष्वेकत्वेन नीलपटादिपरनीलो घट इति वाक्यस्य प्रामाण्यन्दुरिमेवेति तात्पर्यम् । अन्यथा विशिष्टवैशिष्टयेति___ ज्ञानन्द्विविधम्बिशिष्टवैशिष्टयावगाहि उपलक्षितवैशिष्टयावगाहि च । आये विशेषणतावच्छेदकप्रकारकज्ञानङ्कारणम् , दण्डो रक्तो न वेतिसंशयानन्तरं रक्तदण्डवानि
नचेदृशक्लेशापेक्षया तदभाववन्निष्ठविशेष्यतानिरूपिततनिष्ठविषयताशालिशानत्वमेव भ्रमत्व. मिति वाच्यम् ? तथा सति इदं रजतमिति ज्ञाने इद मंशेऽपि भ्रमत्वापत्तेः। अत एव विशेषणताप्रकारतयोर्भेदोऽपि विस्पष्टतरः। ..