________________
६६
व्युत्पत्तिवादः संसर्गज्ञानस्य विशिष्टबुद्धावहेतुत्वेनानुपस्थितस्यापि संसर्गतया भानासंभव न संसर्गतामतेऽनुपपत्यभावात् । न च विभक्त यथेऽपि भेरे सत्त
व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन नीलत्वादिना तत्तव्यक्तीनाम. न्वयः। तादृशभेदानामपि तत्तव्यक्तिभेदत्वावचिन्नप्रतियोगिताकत्वसं. बन्धेन भावेऽन्वय उपेयते । तावतैव तत्तव्यक्तित्वावच्छिन्नाभेदलाभ इति न किंचिदनुपपन्नमिति वाच्यम् ? विशेषण तावच्छेकावच्छिन्नाया एव वच्छिन्नद्रव्यत्वावच्छिन्नप्रकारता यद्यपि घटमात्रनिष्ठत्वेनातिप्रसक्ता तथापि द्रव्यत्वमेवावच्छेदकन्नतु अनतिप्रसक्तमपि घटत्वमन्यथा द्रव्यवस्कपालम् घटवत्कपालम् इति प्रतीत्यो_लक्षण्यानापत्तेः। तथा चेयं संसर्गता विषयतारूपत्वात् भेदप्रतियोगिताका भावत्वेनावच्छिद्यत एवेति न विरोधाभासः।) नैवास्ति प्रामाण्यमितिदोषाऽभावेन प्रकारतावादिमतमेव ज्यायस्तरमित्याशयन्निधायाह नचैवमिति । तदुत्तरमाह तथासत्यपूर्वेति । अस्येदम्तात्पर्यम् , प्रकारीभूतपदार्थस्यान्वयबोधम्प्रति तच्छक्तिज्ञानाधीनीपस्थितिः कारणम् । एवञ्च नीलो घटो भविष्यतीत्यादावपूर्वभाविनस्तद्व्यक्तित्वस्य नोपस्थितिरतस्तदवच्छिन्नभेदाऽभावे च विशेषणविभक्तर्न शक्तिग्रहसम्भव इत्यपूर्वव्यक्तीनां भविष्यत्कालावच्छिन्नानामभेदान्वयबोधो न स्यात् । न च संसर्गतावादिमतेऽपि विशेषाऽपूर्वव्यक्तीनान्नीलो घटो भविष्यतीत्यादावमेदान्वयबोधो न स्यादिति वाच्यम् ? संसर्गज्ञानस्य नैव विशिष्टबुद्धिनियामकत्वमिति सिद्धान्तः । उपस्थित्यर्थमेव हि शक्तिशानमपेक्षणीयम्भवति । संसर्गतावादिमते तु आकाङ्क्षाभास्यत्वादभेदस्याभेदोपस्थितेरपेक्ष व नास्तीति विशिष्ट बुद्धौ संसर्गस्यैव कारणत्वमस्तीत्यपूर्वव्यक्तिनिष्ठाऽभेदान्वये न क्षतिरिति समाधानम् । जात्या ब्राह्मणः महाकविरित्यादी जातिपदार्थमहापदार्थयोब्राह्मणत्वे कवित्वेऽन्वयदर्शनात्तत्तद्व्यक्तित्वावच्छिन्नाभेदरूपविभक्त्यर्थघटकतव्यक्तित्वे नीलपदार्थान्वये पदार्थः पदार्थेनान्वेतीतिनियमविरोधो न दशिंत इत्यलम् । संसर्गतामतेऽनुपपत्त्यभावादिति--
तत्तत्पदाद् यद्यप्यन्वयोपस्थिति यायिकानाम्मतेऽन्विताभिधानमीमांसकमतस्य सांसगिंकविषयतायाःप्रकारत्वेति-संयोगेन घटवद् भूतलम् इत्यादौ संयोगस्य संसर्गविधयैव भानन्न तु प्रकारविधयेति प्रतीतिसिद्धोऽनुभवनीयश्च सिद्धान्तो यत् सासर्गिकविषयता प्रकारत्वानवच्छिन्नेति । सांसर्गिकविषयताया ईदृशी दशाऽस्ते चेत् संसर्गतावच्छेदकनिष्ठविषयतायाः प्रकारतानवच्छिन्नत्वं सुतरा सिद्धम् ।
अत एव-प्रमेयं नास्ति कम्बुग्रीवादिमान्नास्ति इत्यादिशाब्दबोधानां संसर्गकोटावेव प्रतियोगितायां प्रमेयत्वायवच्छिन्नत्वावगाहितया भ्रमत्वम् , अन्यथा स्वरूपसम्बन्धेन प्रमेयत्वाधवच्छिन्नप्रतियोगित्वस्यालीकतयाऽखण्डतरसम्बन्धेन प्रमेयस्य अभावे धर्मिणि अन्वयासम्मवेन भ्रमत्वानुपपत्तेः। संसर्गप्रकारसाधारणविशेषणत्वाख्यविषयताघटितस्यैव भ्रमत्वादिति ।