________________
शास्त्रार्थकलोपस्कृता षणविभक्तेरभेदार्थकत्वमतेऽपि तत्तद्वयक्तित्वावच्छिन्नाभेद एव विभक्तयों वक्तव्य इति वाच्यम् ? तथा सत्यपूर्वव्यक्तिनिष्ठतत्तद्वयक्तित्वस्य कथंचिदपि भानासम्भवेन तदवच्छिन्नभेदाभावे शक्तिमहासम्भवेनापूर्वव्यक्तोनामभेदान्वयबोधानुपपत्तेः।। स्वेऽपि वायो स्पर्शसमवायसत्वेऽपि रूपसमवायो नास्तीतिरूपवान्वायुरितिप्रयोगो न भवति । वायौ रूपाऽभावेन रूपसमवायप्रतियोगिकत्ववाय्यनुयोगिकत्वयोरवच्छेद्यावच्छेदकभावाऽभावात् । एवन्नीलस्वस्यैकत्वेऽपि पटनिष्ठनीलस्वस्य पट एव सम्बन्धत्वन्न घटे इति तत्तात्पर्येण नीलो घट इत्यस्य संसर्गतावादिमीमांसकमतेन प्रामाण्यमिति तत्त्वात् । वस्तुतम्त्विति
अस्येदमाकूतम् , निरुक्तरीत्या भेदोऽभावश्चैव विशेषणविभक्तरर्थः भेदाऽभावपदेन तत्तद्व्यक्तित्वावच्छिन्नभेदाऽभाव एव गृह्यते पटान्वयतात्पर्यकनीलव्यक्तिरन्या घटान्वयतात्पर्यकनीलव्यक्तिरन्यवेति । यथा घट इत्यत्र घटस्य घटत्वप्रकारे मासमानस्वन्तथा नीलत्वप्रकारेण नीलघटव्यक्तरेव भासमानत्वम् । एवञ्च पटान्वयतात्पर्यकनीलो घट इत्यस्य न प्रामाण्यमन्येऽपि पूर्वोक्ता दोषा निरस्ताः। अत्र विशेषणविभक्त्यर्थभेदाऽभावस्य सम्बन्धत्वन्तु पर्वतो बह्निमानित्यत्र वहिप्रतियोगिकपर्वतानुयोगिकसंयोगस्य संयोगत्वेन रूपेण वह्निप्रतियोगिकसंयोगत्वेन रूपेण च सम्बन्धत्ववत् प्रकृतेऽपि नीलपटपरकनीलो घट इतिवत् घटत्वेन पटोऽस्ति घटत्वेन पटो नास्ति नीलपटपरकनीलो न घट इत्यादीनामप्रामाणिकत्वमेव, तव्यक्तित्वावच्छिन्नभेदप्रतियोगिकाऽभावत्वेन रूपेण सामान्यमेदप्रतियोगिकाऽभावत्वेन रूपेण च नीलो घट इत्यत्र विशिष्टबुद्धिश्वोपपनेति ।।
ननु "यश्चोभयोस्समो दोषः परीहारस्तयोस्समः । नैकः पर्यनुयोक्तब्यस्तागर्थविचारणे" इतिन्यायेन प्रकारतावादिमतेऽपि प्रकारीभूतोऽभेदस्तत्तद्व्यक्तिस्वावच्छि. नभेदाऽभाव एवेति पटनिष्ठनीलस्य तद्व्यक्तित्वावच्छिन्नस्य घटेऽभावेन पटान्वयतात्पर्यकनीलो घट इत्यस्य (भेदप्रतियोगिकाऽभावत्वेनेति) इयं संसर्गतविषयतारूपा, यद्यप्यतिप्रसक्तधर्मः प्रतियोगितावच्छेदको न भवति तथापि विषयतावच्छेदको भवत्येवेति सिद्धान्तोऽत एव द्रव्यवत्कपालमितिनिश्चये समवायसम्बन्धाइति चेदत्रोच्यते ? विशिष्टसत्तात्वावच्छिन्ननिरूपकतानिरूपिताधिकरणतायाश्शुद्धसत्तास्वावच्छि. ननिरूपकतानिरूपिताधिकरणताया यथा भेदस्तथैव प्रकृते विशिष्टस्यानतिरिक्तत्वेऽपि शुद्धसमवायत्वावच्छिन्ननिरूपकतानिरूपिताधिकरणतायाःरूपप्रतियोगिकत्वविशिष्टसमवायत्वावच्छिन्न निरूपकतानिरूपिताधिकरणतायाश्च परस्परम्भेदेन वायौ रूपवत्ताबुद्धेरनुत्पादात् । एतादृशरीत्यादरेणैव गुणे कर्मणि वा गुणकर्मान्यत्वविशिष्टसत्तेति प्रतीतिः प्रामाणिकी नतु गुणकर्मान्यत्वविशिष्टसत्तावान् गुण अस्यादिप्रतीतिरपि।