________________
८४
व्युत्पत्तिवादः __ नौलो घट इत्यादौ स्ववृत्तिनोलत्वादेः संसर्गतास्वोकारे उत्तस्थले प्रामाण्यापत्ते१रत्वादिति वाच्यम् ? स्ववृत्तिनोलत्वादेः स्वस्मिन्संबन्धतोपगमेन पटादिवृत्तिनीलत्वादेर्घटादौ पटादिसंबन्धताविरहेण ताहशातिप्रसगाभावात् । वस्तुतस्तु तत्तद्वयक्तित्वावच्छिन्नभेदाभाव एवं नीलस्वादिप्र. कारेण भासमानानां तत्तद्वयकीनो स्वस्मिन् संबन्धतया भासते इति न. काप्यनुपपत्तिः। संवन्धता च तस्य भेदप्रतियोगिताकाभावत्वेन तत्तद्वयक्तिभेदप्रतियोगिताकाभावत्वेम वेत्यन्यदेतत् । न चैवं विशे. अभेदार्थकत्ववादोपपत्तिरिति । ननु प्रमेयो धट इत्यादौ विशेषणवाचकप्रमेयपदोत्तरसुविभक्तेः कथम्भेदाऽभावरूपाऽभेदार्थकत्वम् प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदस्याऽप्रसिद्धत्वात् । एवञ्च कथङ्कारमभेदार्थकत्वमिति चेन्न १ क्वचिन्मुख्याऽभेदो विशेषणविभक्त्यर्थः क्वचिद् गौणाऽभेदी विशेषणविभक्त्यर्थो यथा ग्रामङ्गच्छतीत्यत्र कर्मत्वन्द्वितीयार्थो मुख्य एव परन्तु शास्त्रजानातीत्यत्र मुख्यार्थाऽसंघटनाद् गौणार्थो विषयत्वन्द्वितीयार्थः नीलो घट इत्यत्र विशेषणविभक्तरभेदार्थो मुख्यः । प्रमेयो घट इत्यत्र तु गौण एवाभेदरूपविभक्यर्थ इति प्रतीत्यनुसारेण विरोधविरहात् ।
दूषणान्तरमप्याह प्रकृतिप्रत्ययार्थी सहार्थम्वतस्तयोः प्रत्ययार्थः प्रधानमितिन्यायेन विभक्त्यर्थस्य नीलत्वस्य प्रमेयत्वस्य विशेष्यत्वात्तत्र प्रकृत्यर्थनीलत्ववतो नीलस्याकाङ्क्षाविरहादन्वयो न स्यात् । उदाहरणम् घटत्ववति स्वाधिकरणत्वसम्बन्धेनानुभवविरोधात् घटत्वान्वयो न भवति एतेन सम्बन्धेन एकस्यैव घटस्य घटत्वद्वयवत्त्व प्रसक्तेश्च । एवं स्वाधेयत्वसम्बन्धेन घटपदार्थस्यानुभवविरोधाद् घटत्वेऽपि नान्वयः। अत एवेति ।
कर्म गच्छतीत्यत्र कर्मत्वं द्वितीयार्थस्तस्य प्राधान्यात्प्रकृत्यर्थफर्मपदार्थान्वयस्तत्रानु. भवविरोधान्न भवति । एवमनेकानुभवबलेन नीलत्वप्रमेयत्वादिकन्न विशेषणविभक्त्यर्थः । नच मूले द्वितीयार्थविचारावसरे ग्रामं गच्छतीत्यत्र ग्रामवृत्तिसंयोगे आधेय. तासम्बन्धेन ग्रामान्वयस्य वक्ष्यमाणत्त्वाद् विरोध इति वाच्यम् ? ग्रामस्य संयोगे ग्रामरवेनैवान्वय इति विरोधपरिहारात् । एतावता ग्रन्थेन नामेदो विशेषणविभक्यर्थः ।
ननु संसर्गतावादिमतेऽपि नीलपटादिपरनीलो घट इतिवाक्ये नीलभेदाऽभावरूपनीलत्वस्यैव संसर्गता नीलत्वजातेश्च नीलपटवत् नीलघटेऽपि सत्त्वादापसिरित्याह प्रामाण्यापत्तेरिति । उत्तरमाह स्ववृत्तिनीलत्वादेरिति । समवायसम्बन्धस्यैक
समवायस्यैकत्वेऽपीति-"सम्बन्धसत्ता सम्बन्धिसत्ताया नियामिका"इति सिद्धान्तानुसारेण वायौ स्पर्शसमवायस्वीकारात् तदमिन्नरूपसमबायस्यापि तेन सत्वबोधनाद वायू रूपवानिति आपत्तिप्रस। रूपप्रतियोगिकत्वविशिष्टत्यादिकरणेऽपि विशिष्टस्य शुद्धानतिरिक्तत्वनियमेन दोषावारणात् ।