________________
शास्त्रार्थकलोपस्कृतः
८३ नौलत्वादिमतः स्ववृत्तित्वसंबन्धेनान्वये आकाङ्काविरहाच्च । यथा हि तद्विशिष्टे अधिकरणे आश्रयतया तदन्वयो ऽनुभवविरुद्धः, तथा सद्धर्मे आधेयतया तद्धर्मवदन्वयोऽपि । अत एव कर्म गच्छतीति वाक्यस्य निरकाङ्क्षता । नचैवं संसर्गतामतेऽप्यनिस्तारः । इत्यत्र विभक्त्यर्थभेदे लघुधर्मस्य घटत्वस्याभावीयप्रतियोगितावच्छेदकत्वसम्भवे घटत्वसमनियतस्य घटत्वसमानाधिकरणस्य गुरुधर्मस्य कम्बुग्रीवादिमत्त्वस्य अभावीयप्रतियोगितावच्छेदकत्वन्न भवतीतिकम्बुग्रीवादिमान् घट इत्यादौ मेदाऽभावयोरसंघटनेनाsभेदान्वयबोधो न स्यात् । घटत्वापेक्षया कम्बुग्रीवादिमत्वस्य गुरुधर्मत्वात् इति द्विती. यो दोषः। ननु लघुधर्मसमनियतगुरुधर्मस्याऽभावप्रतियोगितावच्छेदकत्वन्नभवतीतिनियमेऽभावपदोपादानस्य किम्प्रयोजनम्, लधुधर्मसमनियतगुरुधर्मस्य न प्रतियोगितावच्छेदकत्वमित्येवास्त्विति चेन्न?भासमानवैशिष्टयस्य प्रतियोगित्वानुयोगित्वे एव प्रकारत्वविशेष्यत्वे इतियुक्तिसिद्धपक्षे गुरुधर्मस्यापि प्रतियोगितावच्छेदकत्त्वसिद्धये तदुपादानावश्यकत्वात् । ननु लघुधर्मसमनियतगुरुधर्मस्याऽभावावच्छेदकत्वन्नास्तीत्येवास्तुनियमः प्रतियोगितापदोपादानङ्किमर्थमिति चेन्नकम्बुग्रीवादिमद्वान् देश इत्यत्र संयोसम्बन्धावच्छिन्नकम्बुग्रीवादिमत्वावच्छिन्नप्रकारतानिरूपितदेशनिष्ठविशेष्यतेतिबोधस्तत्रप्रकारताख्यविषयताया गुरुधर्मस्याऽपि कम्बुग्रीवादिमत्वस्य विषयतावच्छेदकत्वसिद्धये प्रतियोगितापदोपादानस्यावश्यकत्वात् ।
एवमिति । यत्र घटे नीलत्वव्यवहारसिद्धये नीलो घट इति प्रयुज्यते तत्र नीलाऽभिन्नो धट इतिशाब्दबोधो भवत्येव परन्तु यत्र नील इति पटतात्पर्येणोच्यते घट इत्यप्युच्यते तत्र नीलाऽभेदप्रकारकघटविशेष्यकबोधी नेष्यते, भेदाऽभावयोर्विशेषणविभक्त्यथत्वे तु घटत्वेन पटत्वेन च रूपेण नीलयोर्घटपटयों देऽपि नीलत्वेन रूपेण तु मेदो नास्ति नीलत्वेन पटभेदाऽभावस्य नीलपदोत्तरविभक्यर्थत्वेन तस्य च घटे सत्त्वात्पटान्वयतात्पर्येण प्रयुक्त नीलपदघटितनीलो घट इति वाक्येऽपि अभेदसंसर्गकनीलप्रकारकघटविशेष्यकबोधोऽनिष्टोऽपि स्यादेवैतदर्थबोधनाय पटान्वयतात्पर्यविषयीभूतस्याऽपि नीलो घट इतिवाक्यस्य प्रामाण्यन्दुरिमेवेति तृतीयदोषः। एतेनेति । __ अयम्भावः, भेदोऽभावश्च न विशेषणविभक्तरर्थोऽपि तु विशेषणतावच्छेदकीभूतन्नीलत्वम्प्रमेयत्वञ्चार्थस्तस्याऽश्रयतासम्बन्वेन विशेष्यघटादावन्वये नीलत्वाश्रयो घटःप्रमेयत्वाश्रयो घटःप्रमेयवान् घट इतिरील्या शाब्दबोधः। नीलरूपे शक्ती गौरवमती यावन्नीलबृत्तिनीलत्वनातावेव शक्तिस्वाश्रयाश्रयत्वसम्बन्धेन विशेष्येऽन्वयः प्रकृत्यर्थस्य तत्र स्ववृत्तिवृत्तित्वसम्बन्धेनान्वयः। नीलञ्ज लमिति तु न प्रयोगःनीलत्वस्य जलेऽत्यन्ताऽभावात् इति कैश्चिदुक्तन्त्वेतेन नीलपटादिपरनीलो घट इत्युक्तदोषेण निरस्तमित्याशयः।