________________
८२
व्युत्पत्तिवादः। अथ प्रमेयो घट इत्यादौ प्रमेयत्वावच्छिन्नभेदाप्रसिद्धधा लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्त्वे कम्बूग्रीवादिमान् घटइत्यादावनि कम्बुप्रोवादिमत्त्वावच्छिन्न प्रतियोगिताकभेदाप्रसिद्धया च विशेषणविभक्तेरभेदार्थकत्वासम्भवः । एवं नीलपटादिपरनोलादिपदघटितस्य नौलो घट इत्यादिवाक्यस्यापि प्रामाण्यापत्तिः। नीलत्वादिना पटादेभेदाभावस्य नीलघटादौ सत्त्वात् । एतेन विशेषणतावच्छेदकीभूत' नोलत्वप्रमेयत्वादिकमेव विशेषणविभक्त्यर्थः, नोलत्यादे!लत्वावच्छिन्न' भेदाभावरूपतयाऽभेदार्थकत्ववादोपपत्तिरित्यपि निरस्तम् नीलत्वादौ त्यत्र चाभेदसम्बन्धेनान्वयबोधो न स्यात् । यदि तृतीयाया ग्रहणन्न स्यात्तर्हि सुन्दरेण घट इत्यादावप्यभेदान्वयाऽपत्तिः, अस्मिन्विकल्पप्रस्तावे शङ्कते। ननु सुन्दरेण घट इतिप्रयोगः कुतो न भवति "प्रकृत्यादिभ्य उपसंख्यानमि" तिवार्तिकेनाऽभेदे तृतीयाविधानानुशासनात् । न च सुन्दरशब्दस्य प्रकृत्यादिगणे पाठाऽभावेन तृतीयाविधानाऽभावात्कथमयम्प्रयोग इति वाच्यम् ? व्याकरणान्तरे प्रकृत्यादिगणपठितातिरिक्तशब्देभ्योऽपि तृतीयाविधानानुशासनात् ताहशप्रयोगसौष्ठवात् । अभेदान्वयबोधम्प्रति समानविभक्तिकपदजन्योपस्थितिः कारणमितिनियमेन सुन्दरेण घट इति प्रयोगस्याप्रामाणिकत्वात् । यथायोगं सर्व विभक्त्यपवादः प्रकृत्यादिभ्य इति वात्तिकम् । अत एव सुखमेति विषममेति प्रकृतिश्चारुः सुखं यातीत्यादिप्रयोगा लोके न भवन्ति शिष्टसम्प्रदायविरुद्धत्वात् । न च धान्येन धनम् परमेण सुन्दर इति प्रयोगाशैष्टाः कथ कारं संगच्छन्त इति वाच्यम् ? प्रकृत्यादिशब्दोत्तरतृतीयातिरिक्ता मूलोक्तादिशब्दात् संग्राह्ये तिकल्पनेनाऽपत्तिपरीहारात् । अयमेव मुलाशयो गदाधरभहाभिमत इति सिद्धान्तसमाधानमित्यलम् ।
दोषान्तरमाह प्रमेयो घट इति । अप्रसिद्धप्रतियोगिकाऽभावतात्पर्येण । तथाहि, प्रमेयपदोत्तरयोर्भेदः अभेदश्चार्थस्तत्र प्रकृत्यर्थस्य प्रमेयस्य प्रमेयत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भेदेऽन्वयः, भेदस्य च भेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन अभावपदार्थेऽन्वयस्स कथं सङ्गच्छेत भेदस्य प्रतियोगितावच्छेदकेन सह विरोधात् "सप्तानामपि साधयं ज्ञेयत्वादिकमुच्यते" इत्युक्त्या प्रमेयत्वस्य सर्वत्र विद्यमानत्वात्प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदोऽप्रसिद्ध एवेत्याह भेदाप्रसिद्धयेति । प्रथमो दोषः घटपदार्थे घटत्वं वर्तते कम्बुग्रीवादिमत्वश्च धर्मद्वयम् कम्बुग्रीवादिमान् घट
प्रमेयत्वस्येति-"सप्तानामपि साधय ज्ञेयत्वादिकमुच्यते" इतिरीत्या प्रमेयत्वादेः केवलान्वयिस्वम्प्रदर्यते वृत्तिमदत्यन्तामावाप्रतियोगित्वं हि तल्लक्षणम् , एवञ्च सप्तपदार्थवृत्तिप्रमेयत्वादेतादृशलक्षणाकान्तत्वेन तत्त्वं सिध्यतीति भावः। तार्किकेतरमतेऽपि प्रमेयत्वम्प्रमाविषयत्वं तच्चेश्वरीयशानविषयतामादाय सर्वत्र व्यवहत शक्यत इति ।