________________
शास्त्रार्थकखोपस्कृतः
मैत्रम्, भेदोऽभावश्च विशेषणविभक्तेरर्थः विशिष्टलाभस्त्वाका ङ्खादिवशात् ! एतेन भेदे नीलादिपदार्थान्वये एकदेशान्वयप्रसंग इति निरस्तम् । न च विशेषणविभक्तेरभेदार्थकत्वे नीलं घट इत्यादावप्यभेदान्यय बोधापत्तिर्धान्येन धनवानित्यादौ तृतीयया अभेदबोधनात् अभेदप्रकारको विरुद्धविभक्तिराहित्यस्यानपेक्षणादिति वाच्यम् ? द्वितीयादिनाऽभेदबोधने प्रयोजकत्वमित्युपगमात् ।
८१
द्वितीयाद्यन्तविशेष्यत्राचकपदसमभिव्याहारस्य
त्वेन कृतौ च शक्तिद्वयमिति परिच्छिन्नत्वसम्बन्धस्याऽकाङ्क्षाभास्यत्वेऽपि न दोषः । प्रकृते च भेदाऽभावयोरेकैव शक्तिरिति नाकाङक्षाप्रयोज्यत्वं संसर्गस्येति फलति । नीलञ्जलमित्यत्र जले नीलभेदस्यैव सत्त्वेन नीलंभेदाऽभावस्याभावान्न नीलञ्जलमित्यस्य प्रामाण्यम् भेदस्य पदार्थत्वमेव नतु पदार्थतावच्छेदकत्वन्तथाच पदार्थः पदार्थेनान्वेति नतु पदार्थैकदेशेनेतिनियमस्याऽप्रवृत्त्या भेदपदार्थे नीलपदार्थान्वये न कोऽपि बाधक इत्यभिप्रायवानाह निरस्तमिति । अत्र कश्चिच्छङ्कते प्रकारतावादिमते ननु यदि विशेषणविभक्तेरभेदोऽर्थोन्वयश्च खण्डशक्त्यैव नीलो घट इत्यत्र नीलनिष्ठप्रतियोगितानिरूपकमेदप्रतियोगि काभावविशिष्टो घट इति यथा बोधस्तथैव नीलं घट इत्यत्रापि विभक्त्यर्थोऽमेदस्तस्य भेदेऽभावे च शक्तिः । नीलस्य भेदे भेदस्य अभावे अभावस्य घटेऽन्वयसम्भवात् । यदि चोच्यते अभेदान्यबोधम्प्रति समानविभक्तिकपदजन्योपस्थितिरेव कारणमतो नीलं घट इत्यत्र द्वितीयान्यप्रथमान्तसत्त्वेन नाभेदान्वय इति तर्हि धान्येन धनवानित्यत्र विरुद्धविभक्तिसत्त्वेनाभेदान्वयबोधो न स्या दित्याशयवानाह धान्येन धनवानिति । उत्तरमाह - द्वितीयान्तघटकप्रत्ययेनाsमेदान्वयबोघे द्वितीयान्तविशेष्यवाचकपदसमभिव्याहारः कारणमिति । एवन्तृतीयार्थाऽभेदान्वयबोधम्प्रति तृतीयान्तविशेष्य वाचकपदसमभिव्याहारः कारणमिति रीतिः । नचैवमुत्तरे धान्येन धनवानित्यादावभेदान्वयो न स्यात् उक्तविरुद्धविभक्तिकत्वात्, विरुद्धविभक्तिकत्वेऽपि क्वचित् अभेदान्वयो यदि स्यात्तहिं नीले न घटः पीते न घट इत्यादावप्यभेदान्वयाऽपत्तिस्स्यात् इति वाच्यम् १ नीले न घट इत्यादौ तृतीयाविधायकसूत्रवार्त्तिकाऽभावात् । धान्येन धनवानित्यत्र तु " प्रकृत्यादिभ्य उपसंख्यान” मिति वात्तिकविधायकम् । तथा च वार्त्तिकप्रामाण्यात् “प्रकृत्यादिभ्य उपसंख्यानमि" तिवार्तिकविहिततृतीयाभिन्नतृतीयार्थाऽभेदप्रकारकबोधे तृतीयान्तविशेष्यवाचकपदसमभिव्याहारः कारणमिति कार्यकारणभावेन नीले न घटः पीते न घट इत्यादेस्सुतरान्निवार्यत्वात् ।
द्वितीयादिनाऽभेदबोधन इति ।
नन्वादिपदेनात्र यदि तृतीया गृह्यते तदा धान्येन धनवानित्यत्र प्रकृत्या चारुरि
६ व्यु०