________________
व्युत्पत्तिवादः
रानोलभेदत्वावच्छिन्नाभावः प्रतीयते इति वाच्यम् ? पदार्थद्वयसंसर्गभानस्यैवाकाङ्क्षानियम्यत्वान्नील भेदत्वावच्छिन्न प्रतियोगितान्तर्भावेण वृत्तिं विना भेदरूपपदार्थतावच्छेदकस्याभावे तादृश सम्बन्धेन भानासम्भवात् !
८०
भेदस्यैव सत्त्वेन नीलञ्जलमितिरूपन्न भवति उक्तरीत्या भेदप्रतियोगि काऽभावस्याऽभेदत्वे तु जले नीलभेदाऽभावाऽभावेऽपि द्वित्वादिधर्मेण अर्थात् नीलभेदघटोभयन्नास्तीति च घटत्वनीलभेदैतदुभयप्रतियोगि काऽभावस्य द्वित्वावच्छिन्नप्रतियोगिताकस्य सवेनानिष्टन्नीलञ्जलमितिवाक्यस्याऽपि प्रामाण्यं स्यादेव । ननु द्वित्वावच्छिन्नप्रतियोगिताकाऽभावो न गृह्यतेऽपि तु केवलनीलभेदत्वावच्छिन्नाऽभाव एव नीलभेदत्वेतरधर्मानवच्छिन्नप्रतियोगिताकाभावश्व, तथाच जले नीलभेदरूपप्रतियोगिनस्सत्त्वेन तदभावाऽभावेन नीलञ्जलमितिवाक्यस्य नैव प्रामाण्यमित्याशयेनाह नीलभेदत्वावच्छिन्नेति । नीलपदेनोपस्थितस्य नीलपदार्थस्य विभक्त्यर्थविशेषणीभूतनीलपदार्थेऽन्वयो न सम्भवति ।
नच नीलभेदत्वावच्छिन्नस्य विभक्त्यर्थत्वे पीतो घटः सुन्दरो घटः रक्तो घट इत्यादिषु पीतभेदत्वावच्छिन्नसुन्दरभेदत्वावच्छिन्नश्यामभेदत्वावच्छिनेतिरीत्या विभक्त्यर्थकल्पनेऽननुगमस्स्यादिति वाच्यम् ? यथा तत्पदम्बुद्धिविशेषविषयत्वोपलक्षितवक्तृजिज्ञासिततत्तद्धर्मावच्छिन्ने शक्तमिति रीत्या घटत्वपटत्वादीनान्धर्माणाम्बुद्धिविषयतावच्छेदकत्वेनानुगमस्तथा प्रकृत्यर्थतावच्छेदकत्वधर्मेणैवानुगमः । प्रकृत्यर्थतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नप्रतियोगिताकाऽभावे शक्तौ न गौरवम् ।
ननु विशेषणतया नीलपदार्थातिरिक्तत्वेन केवलभेदप्रतियोगिकाऽभाव एव विभक्त्यर्थः, नीलप्रतियोगिनस्तु नीलपदसमभिव्याहारादेव भेदेऽन्वये सति न दोष इत्यत आह नचेति । अभेदो विभक्त्यर्थस्तत्र अभेदः पदार्थः भेदः पदार्थतावच्छेदकः सम्बन्धश्च नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वरूपः पदार्थद्वयसंसर्ग एवाकाङ्क्षालभ्यः, यथा घट इत्यादौ घटघटत्वसमवायेषु त्रिष्वेव शक्तिः घटे घटत्वं समवायेन भासते समवायश्च शक्त्युपस्थाप्यः । एवञ्च पदार्थतावच्छेदके भेदे शक्तिं विना समवायवत् नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन कथङ्कारम्भानमित्याशयेनाह वृत्ति
विनेति ।
ननु पार्थक्येन भेदेऽभावे च खण्डशरशक्तिः । पृथक-पृथक पदनिष्ठभिन्नशक्त्योपस्थित्तिविषयार्थद्वयसंसर्गभानमिति यावत् । अत एवाख्यातार्थस्थले कालस्तु व्यापारे विशेषणम् कालकृत्योः परिच्छिन्नत्वसम्बन्धः वर्त्तमानादिकालत्वेन वर्त्तमानादौ कृति न्निकर्षेणैव प्रत्यक्षस्वीकारात् तत्रातिव्याप्तयापत्तेः । भावभिन्नत्वनिवेशे तु भिन्नशब्दार्थस्य भेदाश्र - यत्वेन भेदस्य चान्योन्याभावत्वेन पूर्वोक्तदोषस्य जागरूकत्वात् । असमस्तनञ्पदजन्यप्रतोतिविषयत्वन्तत् इत्यपि न ? अनुदरा कन्येत्यादौ नास्त्युदरं यस्या इति विगृह्य अल्पस्वस्यापि तादृशविषयस्वेन तत्रातिव्याप्त्यापत्तेः । अतोऽखण्डोपाधित्वमेव शरणम् ।