________________
शाखाथकलोषस्कृतः नोलभेदत्वावच्छिन्नाभावस्य विभक्त्यर्थत्वेन नीलादिपदार्थानन्वयप्र. सङ्गः । न च भेदप्रतियोगिकाभाव एव विभक्त्यर्थः, नीलपदससभिच्याहाप्रतियोगिको नाम यत्किञ्चिद्मेदव्यक्तिप्रतियोगिकोऽभावोऽभेद इति तात्पर्यमेवञ्च नीलघटे नीलभेदो नास्तीति नीलभेदप्रतियोगिकाऽभावरूपोऽभेदस्सर्वत्र प्रसिद्ध एवेत्येतत्सर्वमभिप्रेत्याह यदि चेति । उत्तरमाह नदेति । अत्रैव प्रसङ्गात्कथञ्चिदभावपदार्थो निरूप्यते ।
द्रव्यादिषटकान्योन्याभाववत्त्वमभावत्त्वम् इतिमुक्तावली । नञर्थप्रत्ययविषयत्वमभावत्वमित्युदयनाचार्याः। तत्र नार्थस्य प्रत्ययो नार्थप्रत्ययः षष्ठयों विषयित्वम् नर्थस्य तत्र निरूपितत्वसम्बन्धेनान्वयः । एवञ्च नमर्थनिरूपितविषयिताविशिष्टप्रत्ययनिरूपितविषयताश्रयत्वमभावत्वम् । अभावत्वेऽतिव्याप्तिवारणाय नअर्थोऽभाइति विहाय पूर्वोक्तप्रकारः। अभावत्वस्यापि "जात्याकृतिव्यक्तयः पदार्थ" इति गौतमानुरोधेन पदार्थत्वात् ।
नच नर्थप्रत्ययविषयत्वं सामान्यरूपेणाऽभावत्वेऽस्त्येवेति कथन्तस्य व्यावय॑त्वमिति वाच्यम् ? प्रतियोगित्वानुयोगित्वान्यतरसम्बन्धावच्छिन्ना या प्रकारता तन्निरूपितनपदप्रयोज्यविशेष्यताश्रयोऽभाव इत्येवं तात्पर्याऽभिवर्णनात् । वस्तुतस्तु भेदत्वमभावत्वञ्चाखण्डोपाधिरिति नान्योन्याश्रयशङ्केति । जन्यत्वञ्च जनकताप्रतियोगित्वम् । जनकत्वञ्च कार्याव्यवहितप्राकक्षणावच्छेदेन कार्यसमानाधिकरणाऽत्यन्ताऽभावाप्रतियोगित्वम् । घटो नास्ति घटो नश्यति घटः पटो न इत्यभावत्रयाणामुदाहरणानि । प्रागभावत्वञ्च प्रतियोगिविनाश्यभावत्वम् , घटो भविष्यतीत्युदाहरणम् । ननु किमर्थ एष आश्रीयत इति प्रश्नः १ यावत्कारणसामग्रीसत्त्वेन कपाले घटोत्पत्त्यनस्तरमपि घटान्तरोत्पत्तिप्रसक्तः । नच विद्यमानघटो घटान्तरोत्पत्तिप्रतिबन्धकस्स्यादे'यश्च न पुनस्तेनैव कारणेन घटान्तरोत्पत्तिरिति वाच्यम् ? एतद्विडम्बनाऽपेक्षया प्राग. भावस्वीकृतावेव लाघवात् । परन्तु घटो भविष्यतीति नोदाहरणं घटते । अभावरूपार्थस्तु घटो मास्तीत्यत्र नार्थ एव । घटो नश्यतीत्यत्र णश अदर्शन इति धातौ दर्शनप्रतियोगिकाऽभावो धात्वर्थः तत्राऽस्ति नञ्पदम् । घटः पटो नेत्यत्रापि नञ्पदम्परन्तु घटो भविष्यतीत्यत्राऽभावरूपार्थो भूधातोः तिप्स्ययोर्वा घटार्थो वेति विचिकित्सायाम्मुह्यन्ति तार्किका आधुनिका इति शुक्लाः । यत्किञ्चिद्भेदप्रतियोगिकाऽभावस्थाऽप्यभेदपदार्थेऽनिष्टस्य नीलजलमितिवाक्यस्याऽपि प्रामाण्यमापद्येत । "वर्णश्शुक्लो रसस्पशौं जले मधुरशीतलावि"त्युक्त लन्नीलन्न भवतीति न्यायशास्त्र सिद्धान्तः । जले नील
अमावपदार्थ इति अत्र द्रव्यादिषटकान्योन्याभाववत्वममावत्वमितिलक्षणेऽन्योन्याश्रयस्य स्वग्रहसापेक्षग्रहविषयस्वरूपस्य भापत्तिः, तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वमन्योन्याभावस्वम् इति लक्षणात् । विशेषणतासन्निकर्षजन्यप्रत्यक्षविषयत्वमित्यपि न १ समवायपदार्थस्यापि विशेषणतास
-
~-
-