________________
व्युत्पत्तिवादः __ननु स्वरूपसंयोगैतदुभयसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावो घटवद्भूतलन्नेस्यादौ प्रसिद्ध इति वाढं शक्यम् ? भेदत्वगतैकत्ववृत्तिर्या स्वरूपत्वगतैकत्ववृत्तिः प्रतियोगिता तादृशप्रतियोगिताकाऽभावोऽप्रसिद्ध इति तात्पर्यावधारणात् । स्वरूप. स्वगतैकत्वे वृत्तिता च प्रतियोगितायाः केन सम्बन्धेन ? स्वनिरूपितससर्गतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेनेति नोभयसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावप्रसिद्धिरिति वर्णनात् । ननु भेदत्वेन घटो नास्तीत्यादौ प्रसिद्धिरूपात्तधर्मस्यैव प्रतियोगितावच्छेदकत्वनियमादिति चेन्न ? स्वरूपत्वगतैकत्ववृत्तिा भेदनिष्ठा प्रतियोगिता तादृशप्रतियोगिताकाऽभावाऽप्रसिद्धिरिति योजनेन प्रकृते च घटनिष्ठेव साक्षात्प्रतियोगितेत्यदोषात् । ननु भेदत्वेन भेदघटो नास्तीत्यादी प्रसिद्धिरिति चेदत्रायश्चित्रविशेषः । भेदत्वगतैकत्ववृत्तिर्या प्रतियोगितेत्येव मूलम् भेदस्वगतकत्वे वृत्तिता च प्रतियोगितायाः स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपातयनुयोगितावच्छेदकत्वस्वनिरूपकाऽभावनिष्ठनिरूप्यतानिरूपितनिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्तयनुयोगितावच्छेदकत्वमित्युभयसम्बन्धेनेति वि. शिष्टाभिधानात् । ननु स्वरूपत्वेन स्वरूपस्याऽप्रसिद्धत्वेऽपि स्वरूपत्वेन संयोगसमवायावच्छिन्न : प्रसिद्धः। किञ्च स्वरूपत्वेन संयोगावच्छिन्नस्वरूपैर्भेदो नास्तीत्यादावपि प्रसिद्धिरिति चेन्न ? स्वरूपत्वगतैकत्वे वृत्तिता च प्रतियोगिताया: केन सम्बन्धेन ? स्वनिरूपितसंसर्गतावच्छेदकतात्यावच्छिन्नप्रतियोगिताकपर्याप्तयनुयोगितावच्छेदकत्वस्वनिरूपकाऽभावनिष्ठनिरूपकतानिरूपितनिरूप्यतावती या संसर्गता ताशसंसर्गतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपातयनुयोगितावच्छेदकत्वमित्युभयसम्बन्धेन। तत्र च द्वित्वेऽवच्छेदकतेति । ननु भेदत्वेन घटो नास्ति घटत्वेन भेदो नास्ति इति समनियतपदार्थे तादृशाऽभावः प्रसिद्ध इति । समनियतत्वञ्च स्वव्याप्यत्वस्वव्यापकत्व. मित्युभयसम्बन्धेन । तथा च कथं ग्रन्थसङ्गतिरिति चेन्न ? भेदत्वगतैकत्वे वृत्तिता च प्रतियोगितायाः केन सम्बन्धेनेति ? एकचोक्तसम्बन्धः अपरश्च स्वनिरूपितानुयोगित्वावच्छिन्नविशिष्टनिरूप्यतानिरूपितनिरूकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्यासयनुयोगितावच्छेदकत्वमित्युभयसम्बन्धेन उत्तरस्वरूपम्बोध्यम् ।
किञ्च भेदत्वगतैकल्लवृत्तिोऽभाव इत्यपि व्याख्या। सम्बन्धश्च स्वनिरूपितप्रतियोगितानिरूपितानुयोगित्वविशिष्टनिरूप्यतानिरूपित निरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्सयनुयोगितावच्छेदकत्वमित्युभयसम्वन्धेन । ननु न भेदत्वावच्छिन्नाभावोऽभेद इति व्याख्यायाऽप्रसिद्धिरापतेत्किन्तु भेद
समनियतेति-वस्तुविशिष्टत्वं समनियतत्वम् वैशिष्टयञ्चोक्तमेव मूले। समन्वयश्च व्याप्यत्वं हि स्वाभावक्दवृत्तित्वम् भेदत्वेन घटो नास्तीतिप्रतीत्यमाववत्त्वं घटवभूतल
नामतीतिपतीत्यमाववत्वं घटवदभतलादौ तदवृत्तिस्वरूपव्याप्यत्वमपि वर्तते यत्र २ मेदत्वेन घटो नास्तीतिप्रतीतिस्तत्रर घटत्वेन मेदो नास्तीतिप्रतीतिरिति व्यापक. स्वमप्युमयोस्सममिति भवति सामनैयत्यम् ।