________________
शास्त्रार्थकलोपस्कृतः
ताकाऽभावाऽप्रसिद्धिरिति फलति । अप्रसिद्ध प्रतियोगिकाऽभावो नैयायिकैने स्वीक्रियते इति सिद्धान्तः । परन्तु यद्यत्र भूतले घटो नास्तीत्यत्रैतद्भूतलवृत्तिघटकर्तृकसत्ताऽभाव इतिबोधस्तर्ह्येतद्भूतलवृत्ति वटकर्तृकसत्ताया असत्त्वेन तत्प्रतियोगिकाऽभावस्थाऽप्यप्रसिद्धप्रतियोगिकत्वात्कथन्तत्र शाब्दबोधः । किञ्च घट आकाशन्न पश्यति घट आकाशन जिप्रति अभाव आकाशन्न पश्यति ईश्वरस्स्वजन्म न जानाति मनो रूपन्न पश्यतीत्यादिविलक्षणप्रयोगदर्शनेनाऽप्रसिद्धप्रतियोगिकाऽभावोऽपि कथञ्चित् । ननु अप्रसिद्धप्रतियोगिकाऽभावानङ्गीकर्तृमते कथं ग्रन्थसङ्गतिरिति प्रश्नः ? घटो नास्तीत्यादौ भेदत्वावच्छिन्नप्रतियोगिता निरूपकत्वस्य प्रसिद्धत्वेन भेदत्वावच्छिन्नप्रतियोगितानिरूपकत्वस्याऽप्रसिद्धिरित्याशयात् । अत्यन्ताऽभावीयप्रतियोगितायाम्भेदत्वावच्छिन्नत्वस्याऽप्रसिद्धिरिति वर्णनात् । भेदत्वेऽत्यन्ताऽभावीयप्रतियोगिताया अवच्छेदकत्वम्प्रसिद्धमिति व्याख्यानाश्च । अथ च भेदत्वावच्छिन्नाऽभावस्याऽप्रसिद्धयेकदेशप्रसिद्धिपदार्थेन साकं नैवान्वयः किन्तु घटो नास्तीत्यादौ घटादौ भेदस्य यत्किञ्चिभेदत्वावच्छिन्नप्रतियोगिताकत्वस्य यत्किञ्चिद्भेदे प्रसिद्धस्य अत्यन्ताऽभावेऽप्रसिद्धिरिति फलितार्थः ।
इतिपरीक्षा लेख प्रकारः ।
अथ शास्त्रार्थप्रकारः 1
७
नच भेदघटेतदुभयन्नास्तीत्युभयाऽभावे भेदत्वावच्छिन्नत्वस्य प्रसिद्धिरिति वाच्यम् ? भेदत्वमात्रपर्थ्यातावच्छेदकता निरूपितावच्छेद्यतावत्प्रतियोगित्वस्याऽप्रसिद्धिरित्याशयात् । ननु नह्यवयवाऽपर्यासस्य समुदाये पर्याप्तिरिति नियमेन भेदत्वपर्यासाsपि सेति चेन्न १ भेदत्वगतैकत्वप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकं यद्रूपं तद्रूपावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिभूतावच्छेदकता निरूपितावच्छेद्यतावत्प्रतियोगिताकाऽभावोऽप्रसिद्ध इति तात्पर्यवर्णनात् । केवलभेदो नास्तीत्यादावेवैतत्सम्भव इति क्षतिविरहः । नन्वेवमपि तत्रापि भेदत्वेन रूपेण भेदत्ववृत्तित्वेन रूपेण वा भेदत्व एव पर्याप्ताऽस्तीत्यापत्तिस्तदवस्थैवेति चेन्न १ भेदत्वगतैकत्ववृत्तिर्या प्रतियोगिता तादृशप्रतियोगिताकाऽभावोऽप्रसिद्ध इत्याशयः । भेदत्वगतैकत्वे वृत्तिता च प्रतियोगितायाः केन सम्बन्धेन ? स्त्रनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेनेति ग्रन्थसङ्गतेरसौष्ठवात् । ननु स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावस्याप्रसिद्धत्वेऽपि संयोगसमवायजनकत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावः प्रसिद्ध इति न ग्रन्थसङ्गतिरिति चेन्न १ स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावाऽप्रसिद्धावेव ग्रन्थकारस्य निर्भरत्वात् ।
अभावज्ञाने प्रतियोगिद्यानस्य नित्यसाकाङ्क्षत्वेन पूर्व प्रतियोगिनो ज्ञानमावश्यकन्तच्च नाप्रसिद्धस्य सम्भवति इति अप्रसिद्ध प्रतियोगि काभावो नाङ्गीक्रियते । अत एव वन्ध्यासुताभावादेरप्रामाण्यम् । शशशृङ्गन्नास्तीतिप्रतीतेस्तु शशे शृङ्गाभाव इत्यर्थः ।