________________
७६
व्युत्पत्तिवादः दोत्तरविभक्तथर्थकर्मत्वादेः कुत्रान्वय 'इति चेत ? न कुत्रापि । विभक्तिपदं साधुत्वार्थमेव प्रयुज्यते । भभेद एव वा विशेषणविभक्तरथः अभेदस्य संसगमर्यादया भानं तु समासथल एव ! तन्त्र लुप्तविभक्तयनुसन्धान विनापि शाब्दबुद्धरनुभविकत्वादित्यपि वदन्ति । अथैतन्मते अभेदो यदि भेदत्वावच्छिन्नाभावस्तदा प्रसिद्धिः,
यदि च भेदप्रतियोगिकोऽभावस्तदा नील जलमित्मादिवाक्यस्यापि प्रामाण्यापत्तिः ? जले द्वित्वादिना नीलभेदाद्यभावस्य सत्त्वात् । यानाम्प्रकृत्यान्वितस्वार्थबोधजनकत्वमितिनियमेन नीलपदार्थान्वितकर्मत्वस्य नानयनक्रियायामन्वयो घटपदार्थान्वयीभूतस्य नीलपदार्थस्य प्रकरणाद्यनुरुद्धस्य कर्मत्वेऽप्यन्वये नीलपदार्थस्य द्विधा भानन्नीलेऽनन्वितस्य कर्मत्वस्य नानयनक्रियायामन्वयः "प्रकृत्यान्वितस्वार्थबोधजनकत्वं प्रत्ययानामि"ति नियमविरोधात् । किञ्च प्रकृत्यर्थे नीले न कर्मत्वान्वयः ? कारकाणां क्रियान्वयनियमभङ्गापत्तेः, प्रत्ययार्थस्य प्रकृत्यथनिरूपितविशेष्यतया भानमिति नियमविरोधाच्च । तथाच कर्मत्वस्य कुत्रान्वय इति पृच्छति कुत्रान्वय इति । न कुत्राऽपोति
अभेदान्वयबोधम्प्रति समानविभक्तिकत्वरूपाकाशाज्ञानकारणमितिनियमरक्षणपुरस्सरशाब्दबोधसिद्धयर्थमेव, पदसाधुत्वार्थ वा तदुपादानम् ।
ननु सम्भवत्यर्थसाधुत्वे पदसाधुत्वमन्याय्यमिति व्याप्त्या पक्षान्तरमाह अभेद एव वा विशेषणविभक्तेरथं इति । ननु ग्रन्यारम्भेऽभेदस्य संसर्गमर्यादयैव भानमित्युक्तन्तत्कथं सङ्गच्छत इत्याशयेनाह-समासस्थल एवेति । व्यासस्थले तु प्रकारतयैव मानमिति भावः । ननु लुप्त विभक्तिस्मरणपूर्वकसमासेऽपि प्रकारतया भानं स्यादित्यत आह-आनुभविकत्वादिति । अत्र अभेदो नाम भेदाऽभावः भेदाऽ. भावघटकभेदपदार्थे नीलपदार्थस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेनान्वयः, भेदपदार्थस्य च स्वप्रतियोगिकत्वसम्बन्धन अभावपदार्थेऽन्वयः, अभावपदार्थस्य च स्वरूपसम्बन्धेन घटपदार्थेऽन्वयः । एवञ्च नीलो घट इत्यत्र नीलनिष्ठप्रतियोगितानिरूपकभेदप्रतियोगिकाऽभावविशिष्टो घट इति फलितार्थः । प्रकारतावादिमते शङ्कते अभेदो याति । भेदत्वाऽवच्छिन्नाऽभाव इति । भेदत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाऽभाव इत्यभिप्रायः । अत एव भेदत्वावच्छिन्नप्रतियोगिताकस्य नीलभेदाद्यभावस्य वस्तुतः प्रसिद्धत्वेऽपि न विरोधाऽभासः । किञ्च भेदत्वेतरधर्मानवच्छिन्न प्रतियोगिताकाऽभाव इत्यप्यों वक्तु शक्यते तेन नीलबटोभयाद्यभावस्य प्रसिद्धत्वेऽपि न त्रुटिः । अयम्भावः, भेदस्य केवलान्वयितयाऽभावाऽप्रसिद्धिरित्यर्थः । घटादीनाम्पदार्थाना पटादिपदार्थानेदेन प्रतीतिः प्रसिद्वैव तद्भिन्नपदार्थभेदस्य सर्वपदार्थे प्रसिद्धत्वात् । अमावस्य प्रतियोगितावच्छेदकावच्छिन्नेन सह विरोधस्स्पष्ट एव । भेदत्वावच्छिन्नप्रतियोगि