________________
शास्त्रार्थकलोपस्कृतः
शयात् ।
अप्रयोजकत्वादिति
वस्तुतस्तु
७५
नीळादिप
अथ नोलं घटमानयेत्यादी नीलादेर्घटादावन्त्रयोपगमे घटशब्दस्य च रूपशब्देन साकं कर्मधारयः । कर्मधारयसमासद्वयकरणेनाभेदेन नीलविशिष्टं यद्घटीयमभेदेन तद्विशिष्टं रूपमिति शाब्दबोधः । एवञ्च विशेषणवाचकनीलपदस्य स्वोत्तरसुभिन्नपदानुत्तरत्वविशिष्टस्वोत्तरत्वसम्बन्धेन घटपदे सत्त्वेऽपि लुग्विधानेन घटपदस्य स्वन्तत्वाऽभावादेतदाकाङ्क्षाज्ञानाऽप्रवृत्त्या समासस्थले चान्यादृश्या आकाङ्क्षाया आवश्यकत्वेनोभयसाधारणाका ङ्क्षाज्ञानस्यानुपपत्तिप्रवर्त्तकत्वेन ग्रन्थसङ्गतिरित्या
स्वविशिष्टसुप्पूर्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाऽभावविशिष्टस्व
पूर्वत्वरूपस्वाऽव्यवहितपूर्वत्वसम्बन्धेन सुप्प्रत्ययान्तनीलादिपदसमभिव्याहृतघटादिपदत्वरूपाकाङ्क्षाज्ञानङ्कारणमित्येव कार्यकारणभावः । प्रथमवैशिष्टयञ्च स्वप्रकृतिकत्वस्वप्रयोज्याऽभेदसम्बन्धावच्छिन्न प्रकारतानिरूपित विशेष्यताप्रयोजकपदोत्तरस्वादिवृत्तिश्रावणप्रत्यक्ष विषयतावच्छेदकधर्माऽभावप्रकारकज्ञानविषयत्वमित्युभयसम्बन्धेन । द्वितीयवैशिष्टयश्च स्वप्रयोज्याऽभेदसम्बन्धावच्छिन्नप्रकारता निरूपित विशेष्यताप्रयोजकपदप्रकृ
तिकत्वस्वोत्तरस्वादिवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्माऽभावप्रकारकज्ञानविषयत्वमित्युभयसम्बन्धेन । तथाच नीलो घटः घटो नील इत्यादिसुप्रत्ययान्ते ङस्त्वभ्रमे ज्ञानघटितसम्बन्धसत्त्वान्न शाब्दबोधः । नीलस्य घटः घटो नीलस्येत्यत्र च ङस्प्रत्यये सुत्वभ्रमदशायाञ्चाभीष्टश्शाब्दबोधस्सिद्धयति । एवञ्च समासव्यास साधारण्येनैकमेवाकाङ्क्षाज्ञानङ्कारणं शाब्दबोध इति न पार्थक्येन कार्यकारणभाव इति मैथिलाः । अथ नीलं घटमानयेति
अत्र नीलपदार्थस्य घटपदार्थेऽन्वयस्य प्रकरणतात्पर्यबलेन सर्वानुभवसिद्धतया प्रत्यपपत्तिमात्रन्तन्मूलमित्यभिदधति ते यष्टीः प्रवेशय काकेभ्यो दधि रक्ष्यतामित्यादौ अन्वयानुपपत्यभावेन लक्षणाभावेऽनिष्टभिचैव पराभूताः । यत्र हि विशिष्टवाचक शब्द स्स्वार्थैकदेशं विहाय एकदेशे वर्त्तते तत्र जहदजहल्लक्षणेति । यथा सोऽयन्देवदत्तः तत्वमसि इत्यादीति विशिष्टन्द्रष्टव्यं वेदा-न्तपरिभाषायामागमपरिच्छेदे ।
घटशब्दस्य घटीये लक्षणेति--ननु तच्छाब्दबोधे तच्छक्तपदज्ञानत्वेनैव कारणतायास्स्वीका रात लाक्षणिकस्य कथं शाब्दबोधे प्रवेश इति चेदत्रोच्यते । तथा सत्यपि लाक्षणिकपदसमभिव्याहृतं यच्छक्तम्पदन्तदेव लाक्षणिक पदस्मारितलक्ष्यार्थविषयकशाब्दबोधजनकमिति व्याख्यानेनादोषात् । केचित्तु - तात्स्थ्यात् तथैव ताद्धर्म्यात्तत्सामीप्यात्तथैव च ।
तत्साहचर्यात्तादर्थ्याज् ज्ञेया वै लक्षणा बुधैः ॥ इति ॥
वस्तुतस्तु प्रसिद्धाप्रसिद्धशक्तिभ्यामेव निर्वाह लक्षणा नैवादर्त्तव्येति शाब्दिकम्मन्याः ।
योग्यतेति — एकपदार्थेऽपरपदार्थवत्वमेव योग्यता तज्ज्ञानञ्च शाब्दबोधजनकम्, अत एव वह्निना सिञ्चतीत्यादौ शाब्दबोधो न भवति । नव्यास्तु अयोग्यतानिश्चयस्वं प्रतिबन्धकतां स्वीकृत्यैव निर्वाहे योग्यताज्ञानन्न शाब्दबोधे हेतुः । वस्तुतस्तु अयोग्यतानिश्चयत्वेन प्रतिबन्धकत्वमयुक्तमिति दिनक रीयरामरुद्री ययोर्द्रष्टव्यम् ।