________________
७४
व्युत्पत्तिबादः नोलघटरूपमित्यादिवाक्यसाधारण्यानुरोधेनान्याश्या अपि आका. क्षायाः समासस्थळे उपगन्तव्यतया उपदर्शितसमासव्यास साधारणानु गताकाङ्कानुसरणस्याप्रयोजकत्वादिति । स्वोत्तरत्वरूपस्वाऽव्यवहितोत्तरत्वसम्बन्धेन नीलपदवत्स्वाद्यन्तघटपदत्वमस्त्येवेति चेन्न ? समानविभक्तिकत्वविशिष्टतत्तदाकांक्षाज्ञानस्य कारणत्वेनोक्तस्थले विरुद्ध विभक्तिकत्वेनाक्षतेः। नन्वेवमपि सुन्दरन्दधि पश्यतीत्यत्र विशेष्यवाचकामन्तदधिपदस्याऽस. स्वेन कथमाकांक्षाज्ञानमिष्टञ्जनयेदिति चेन्न ? स्वाद्यन्तेत्यस्य स्वाद्यव्यवहितपूर्ववृत्तित्वेनानुसन्धीयमानेत्यर्थविधानेन दधिशब्दोत्तरामोऽनुसन्धानेन लुप्तव्यवहारस्मृत्या स्वन्तदधिपदसत्त्वेनाऽदोषात् ।
____ इति परीक्षालेखप्रकारः । नीलघटरूपमित्यादिवाक्यसाधारण्यानुरोधेनेति
ननु नीलघटरूपमित्यत्र कियन्तो विग्रहास्सम्भवन्ति वाक्यसिद्धिश्च कमिति प्रका. रास्तथाहि नीलश्चासौ घटो नीलघटस्तस्य म्पमिति कर्मधारयपूर्वपदकषष्ठीतत्पुरुषः, नीलाऽभिन्नो यो घटस्तत्सम्बन्धि रूपमिति फलितार्थः । परन्त्वस्मिन्कल्पे निपाता. तिरिक्तप्रातिपदिकार्थयोस्साक्षाभेदसम्बन्धेनान्वयोऽव्युत्पन्न इति सिद्धान्तेन न भेदान्वयोऽभेदान्वयश्च विरुद्धविभक्तिकत्वान्नेति प्रथमः प्रकारः। घटस्य रूपं घटरूपम् नीलञ्च तद् घटरूपमिति नोलघटरूपमिति षष्ठीतत्पुरुषोत्तरपदककर्मधारयो नीलाभिन्नघटसम्बन्धि रूपमिति शाब्द इति द्वितीयः प्रकारः। प्रशस्तो घटो घटरूपम्प्रशंसायां रूपप्. प्रत्ययः । नीलश्चासौ घटरूप इति नीलघटरूपस्तन्नीलघटरूपमिति द्वितीयान्तम्पदम् । नीलाभिन्नप्रशस्ताऽभिन्नघटनिष्ठकर्मतानिरूपकदर्शनमितिशाब्दबोध इति तृतीयः प्रकारः । नीलश्चासौ घट इति नीलघटः प्रशस्तो नीलघट इति । विग्रहे रूपपप्रत्यये नीलघट. रूपमित्यपि द्वितीयान्तपदम् , प्रशस्ताऽभिन्नो यो नीलाभिन्नो घटस्तन्निष्ठ कर्मतानिरूपकन्दर्शनादिक्रियावाचकम्पदमिति चतुर्थः प्रकारः, नीलपटं रूपयतीति नीलघटरूपमिति रूपक्रियायाम् रूप इतिधातुः इति पञ्चमः प्रकारः । प्रथमकल्पे घट पदस्य घटीये लक्षणाकृत्वाऽन्वयाहत्वेऽपि पदार्थः पदार्थेनान्वेतीतिन्यायेन नीलपदार्थस्य घटीयैकदेशेऽन्वयानुपपत्तेः । द्वितीयकल्पेऽन्याशी आकाङ क्षैव योग्येतिवर्णनात् । तृतीयचतुर्थकल्पयोरपि विलक्षणाकांक्षाज्ञानस्यैवानुसर्तव्यत्वात् कथमनुपपत्याख्यमूलग्रन्थसङ्गतिरितिचेन्न ? घटशब्दस्य घटीये लक्षणा, लाक्षणिकेन घटशन्देन साकन्नीलशब्दस्य कर्मधारयः नील
लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः (का०)इतिरीत्या यत्र शक्त्या न निर्वाहसम्मवस्तत्र लक्षणयैव बोधोऽवगम्यते । सा च लक्षणा जहत्स्वार्थाऽजहत्स्वार्थभेदेन द्विविधा । आधा गङ्गायां घोष इत्यादौ' द्वितीया छत्रिणो यान्तोत्यादौ । स्वाशक्यवृत्तिधर्मावच्छिन्नबोधिका लक्षणा जइत्स्वार्थति कथ्यते । स्वशक्यस्वाशक्योभयवृत्तिधर्मावच्छिन्नबोधिका लक्षणा ऽजहत्स्वार्थेति । वेदान्तिनस्तु तृतीयामप्येका जहदजइत्स्वार्थलक्षणामङ्गीकुर्वते। लक्षणायान्तात्पर्यानुपपत्तिरेव मूलम् , येतु अन्वयानु- -