________________
शास्त्रार्थकलोपस्कृतः अथ नोलो घट: नोलघट इत्यादिद्विविधबोधसाधारणं स्वोत्तरसुपदभिन्नपदानुत्तरत्वविशिष्टस्वोत्तरत्वादिरूपस्वाव्यत्रहितोत्तरत्वसम्बन्धेन नोलादिपदवत्सुबन्तघटादिपदत्वमेव तथास्त्विति चेन्न ? इति वक्तु शक्यते सचापराधो विशेषतशिष्टविरोधो वा प्रदर्श्यताम् । एवञ्च विनिगमनावैकल्येन षष्ठथा अभेदार्थकत्वं निर्विवादमिति नीलस्य घट इत्यादावपि अभेदान्वयबोधो भवत्येवेति गदाधरोक्तिः कथमिति विचारयन्तु धीधना इति शास्त्रार्थकलाकाराः। उच्छृङ्खलास्तु--
विशेष्यस्यैव यल्लिनं विभक्तिवचने च ये। तानि सर्वाणि योज्यानि विशेषणपदेष्वपि ॥ या विशेष्येषु दृश्यन्ते लिङ्गसंख्यावि मक्तयः ।
प्रायस्ता एव कर्तव्यास्समानार्थे विशेषणे ॥ इत्युक्तिभ्यां व्यवहारबलेन च नीलस्य घट इतिप्रयोग एव न भवति । असति विशेषानुशासने समानवचनकत्वनियमाद् वेदाः प्रमाणमत्र तु "वेदाः प्रमाणं स्मृतयः प्रमाणमिति महाभारतीयश्शिष्टप्रयोग एव विशेषानुशासनरूप इति वदन्ति । अथ नीलो घट इति स्वोत्तरेति- स्वोत्तरस्वादिभिन्नं यत्पदं तदुत्तरं यत् तद्भिन्नत्वविशिष्टं यत्स्वोत्तरत्वादि तद्रूपेत्याशयः। समन्वयश्च नीलो घट इत्यत्र स्वपदेन नीलपदस्य ग्रहणं स्वं नीलपदन्तदुत्तरस्वादिभिन्नम्पदं घट पदन्तदुत्तरं यद्वस्तु तद्भिन्नत्वं घटपदे तद्विशिष्टं स्वपदग्राह्यन्नीलपदन्तदुत्तरत्वमपि घटपद इति तद्पेति । समासस्थले नीलघट इत्यत्राऽपि स्वनीलपदन्तदुत्तरं स्वादिभिन्नं पदं घटपदन्तदनुत्तरत्वञ्च स्वन्तघटपदेऽस्त्येव । तथैव स्वोत्तरत्वमपीति स्वरूपनीलपदवत्स्वाद्यन्तघटपदत्वरूपाकांक्षोभयसाधारण्येन अभेदसंसर्गकनीलप्रकारकघटविशेष्यकबोधप्रोयजिकेति तत्त्वम् । ननु स्वोत्तरपदानुत्तरत्वविशिष्टेत्येवोग्यतां स्वादिभिन्नेतिपदविशेषणङ्किमर्थमिति चेन्न १ नीलो घट इत्यत्र स्वन्नीलपदन्तदुत्तरं पदं सु इति शक्तम्पदमिति नियमात् । तदुत्तरत्वस्यैव घटपदे सत्त्वेनाकांक्षाज्ञानाभावाच्छाब्दबोधो न स्यात् इत्यभिधानात् । ननु स्वोत्तरस्वादिभिन्नपदानुत्तरत्वसम्बन्धेन नीलादिपदवन्मात्रमाकांक्षाज्ञानङ्कारणमित्येवास्तु किमितोऽधिकनिवेशेनेति चेन्न ? केवलनीलपदेऽपि नीलाकांक्षाप्रसक्तः । नच स्वोत्तरस्वादिभिन्नपदानुत्तरत्वासम्बन्धेन नीलादिपदवत्स्वाद्यन्तघटपदत्वमात्रमाकांक्षाज्ञानकारणमित्येवास्तु किं विशेषणे स्वोत्तरत्वनिवेशेनेति वाच्यम् ? केवलस्वाद्यन्तघटपदेऽपि स्वपदेन गृह्यमाणीदासीन. नीलपदोत्तरस्वादिभिन्नपटमठाद्यनुत्तरत्वसत्त्वेन केवलस्वन्तधटपदेऽपि नीलाकांक्षापत्तिप्रयुक्तशाब्दबोधनिवारणार्थन्तस्यावश्यकत्वात् । नन्वेवं विशिष्टाकांक्षास्वीकारे नीलस्य घट इत्यत्राऽपि दोषस्तथाहि, उसस्स्वादित्वेन स्वोत्तरस्वादिभिन्नपदानुत्तरत्वविशिष्ट