________________
व्युत्पत्तिवादः स्स्यादिति वाच्यम् ? विशेष्यवाचकपदविशिष्टविशेषणवाचकपदत्वरूपाकांक्षाज्ञानमेव शाब्दबोधे कारणम् । वैशिष्टयञ्च स्वविशिष्टो यस्तदव्यवहितपूर्वत्वाभाववत्त्वसम्बन्धेन । सम्बन्धघटकवैशिष्टयञ्च स्वेतरत्वस्वाऽव्यवहितोत्तरवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधम्मभिाववत्त्वमित्युभयसम्बन्धेन । समन्वयश्च समासव्याससाधारण्येन नीलघटः नीलो घट इत्यादौ उभयसम्बन्धेन घट पदविशिष्ट उदासीनः पटादिस्तन्निरूपिताऽव्यवहितपूर्वत्वाऽभाववत्त्वस्य नीले विद्यमानत्वेन शाब्दसिद्धिः। नीलस्य घट इत्यादौ तु उभयसम्बन्धेन घटविशिष्टङ्सव्यवहितपूर्वत्वेन वर्तमानत्वान्न शाब्दबोधः। नीलो घट इत्या. दौ सुप्रत्यये ङस्त्वभ्रमे ताशाकांक्षाज्ञानाऽभावान शाब्दबोधः । नीलस्य घट इत्यादौ ङसि सुप्रत्ययभ्रमे तु तादृशाकांक्षाज्ञानस्य सत्त्वान्नानुपपत्तिरेवञ्च समासव्याससाधारण्येनाकांक्षाज्ञानकार्यकारणभावे बहुतरलाघवमित्यलम् । नच नीलस्य घट इत्यत्र 'सुपां सुलुगि तिसूत्रेण ङसस्स्वादेशे नीलो घट इति जाते तत्र स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदस्वरूपाकांक्षाज्ञानस्य विद्यमानत्वेन कारणान्तरस्याऽपि जागरूकत्वेन च शाब्दबोध आपतेदिति वाच्यम् ? तत्र तात्पर्यज्ञानस्याऽपि कारणत्वेन तदभावात्तत्राऽमेदान्वयविषयकबोधाऽप्रतीतेः । नच कस्यचिदुपेक्षकस्य यदि तादृशबोधे तात्पर्य स्यात्तदा बोधः कथन्नेति वाच्यम् १ षष्टयर्थाऽसंघटनात् । नच राहोशिशरः नाम्नोईयमित्यादौ पातञ्जलभाष्योक्तप्रयोगे व्यपदेशिवदेकस्मिन्नितिपरिभाषामूलके राह्नभिन्न शिरः नामाऽभिन्नं द्वयमितिबोधानुरोधेनाऽभेदोऽपि षष्ठयर्थः । एवञ्च"सुपां सुलुगि"ति स्वादेशेऽपि स्थानिनामेव वाचकत्वमितिपक्षमनुसृत्याऽभेदः षष्ठयर्थ इति। स्वादेशस्य छान्दसत्वेन नीलस्य घट इति वाक्यस्य लौकिकत्वेन वारणे तु स्वातन्त्र्ये'ण नीलस्य घट इत्यत्राऽभेदः षष्ठयर्थ इति अभेदान्वयविषयकश्शाब्दबोधस्स्यादिति वाच्यम् ? पातालभाष्यप्रयोगात्तत्राऽभेदस्य षष्ठयर्थत्वेऽपि सर्वत्र तथा व्यवहारे प्रमाणाऽभावात् । किञ्चाऽभेदस्य षष्ठयर्थत्वे नीली घट इत्यत्राऽपि षष्ठयापत्तिश्च । नच प्रातिपदिकार्थसूत्र विषये षष्ठीविधाने तस्य वैयर्थ्यापत्तिरिति वाच्यम् ? अर्थानुरोधेन स्वविषये तस्य चारितार्थ्यात् । तथा च नीलस्य घट इत्यादावभेदस्य षष्ठयर्थत्वेनाभेदान्वयविषयकशाब्दबोधे न किञ्चिद्वाधकमिति सरयूपारीणशुक्लाः । अत एव नीलो घट इत्यादी विशेषणविभक्तरभेदार्थकत्वे यद्यप्युक्तरीत्या लाधवं सम्भवति तथापि तत्रापि न नो विद्वेष इति गदाधरोक्त वक्ष्यमाणमूलं सङ्गच्छते । किञ्च सुविभक्तिमारभ्य सुप्पर्यन्तयावद्विभक्तिषु अभेदार्थकत्वे स्वीकृते षष्ठथेवापराधिका यस्या अभेदो नार्थ
तात्पर्यशानभपि शाब्दबोधे कारणम्-स्वप्रयोज्योच्चारणकर्मत्वसम्बन्धेन यादृशवाक्यविशेष्यक वक्तरिच्छारूपतात्पर्यज्ञानम्भवति तत् तादृशवाक्यजन्यशाब्दबोधे कारणमिति नियमः। 'यत्संशयव्यतिरेको यदुत्पत्तिप्रतिबन्धको तन्निश्वयस्तद्धतुः, अनुमितौ व्याप्तेरिव' इति चिन्तामणिकारीयसिद्धान्ता नुसारेण तात्पर्यसंशये व्यतिरेकनिश्चये वा शाब्दबोधानुदयात् शाब्दबोधे तात्पर्यञ्चानस्य हेतुता । 'वक्तरिच्छा तु तात्पर्यम्परिकीर्तितम्' का० ।