________________
शास्त्रार्थकलोपस्कृतः नीलो घट इत्यादावपि सुपदस्याम्पदत्यादिभ्रमदशायां तादृशबोधस्यानुदयात् । नीलस्य घट इत्यादावपि षष्ठयादेः सुपदत्वादिभ्रमदशायां शाब्दबोधोत्पत्त्या स्वरूपतो विरुद्धविभक्तिराहित्यस्याप्रयोजकत्वात् ।
दिकमित्यत्रादिपदोपादानं ग्रन्थकृतस्सङ्गतम् । विभक्तिराहित्येत्यत्र विभक्तिपदोपादानन्तु निरर्थकमिवाभाति मूल इत्यलमधिकेन । स्वरूपतो विरुद्धविभक्तिराहित्यस्याऽप्रयोजकत्वादिति
वस्तुतस्तु विशेष्यवाचकपदविशिष्टश्रावणप्रत्यक्षविषयतावच्छेदकधर्मप्रकारकज्ञानविषयाऽप्रकृतित्वमेव विरुद्धविभक्तिराहित्यन्तज्ज्ञानस्यैवाभेदान्वयबोधजनकत्वम् । वैशिष्टयञ्च स्वाऽव्यवहितोत्तरावृत्तित्वस्वाऽवृत्तित्वैतदुभयसम्बन्धेन । नीलो घट इत्यत्र नीलपदे सुप्रकृतित्वेऽपि घटपदविशिष्टश्रावणप्रत्यक्षविषयतावच्छेदकङस्त्वादिधर्मप्रकारकज्ञानविषयीभूतङसादिप्रत्ययाऽप्रकृतित्वेन नीलघट इत्यत्राऽपि तथा सत्वेनाभीष्टसिद्धिः। नीलस्य घट इत्यादी घटपदविशिष्टश्रावणप्रत्यक्षविषयतावच्छेदकधर्मप्रकारकज्ञानविषयङस्प्रकृतित्वस्यैव विद्यमानत्वेनाक्षतेः । नचैवमपि घटस्य रूपं घटरूपं नील. ञ्च तद्घटरूपन्नीलघटरूपमित्यादौ अभेदान्वयबोधो न स्यात् तत्र विशेष्यवाचकम्पदं रूपपदन्तद्विशिष्टश्रावणप्रत्यक्षविषयतावच्छेदकधर्मो घटत्वन्तत्प्रकारकज्ञानविषयघटप्रकृतित्वस्यैव सत्त्वात् समास विषयिका या आकाङ्क्षा विशेष्यवाचकपदाऽव्यवहितपूर्ववतिविशेषणवाचकपदत्वरूपा तस्या अप्यत्र प्रवृत्तिस्तथाहि, विशेष्यवाचकन्तु रूपपदमेव तत्रैव नीलपदार्थस्यान्वयः। एवञ्च घटपदेन व्यवधानान्न समासीयाकाङ्क्षाप्रवृत्तिरिति वाच्यम् ? तत्र नीलपदाव्यवहितोत्तरघटपदाव्यवहितोत्तररूपपदत्वरूपाकांक्षाज्ञानकारणमिति विलक्षणाकाक्षाज्ञानस्य भिन्नस्य स्वीकारेण तत्राऽभेदान्वयसौष्ठवात् ।
ननु प्रशस्तः पाचक इतिविग्रहे प्रशंसायां रूपप्प्रत्यये पाचक रूप इति तत्र सुन्दरपदसम्बन्धे सुन्दरः पाचकरूप इत्यादौ सुन्दरपदार्थस्य पाचकपदार्थ एवान्वयस्सर्वानुभवसिद्धी नतु रूपपप्रत्ययार्थविशिष्टे पाचकपदार्थे स्वन्तसुन्दरपदसमभिव्याहृतस्वन्तघटपदत्वरूपाकाङ्क्षाज्ञानेन सुन्दरो घट इत्यादिस्थलीयाकाङ्क्षाज्ञानस्याऽपि न प्रवृत्तिः पाचकपदस्य केवलस्य स्वन्तत्वाऽभावात् । एवञ्च तत्र केनाकाङ्क्षाज्ञानेनाऽभेदान्वयसिद्धिरिति वाच्यम् ? सत्यमेवेति एवमेवम्प्रकारेण सुन्दरतरः पाचकरूपः सुन्दरदास्याः पुत्र इत्यादी अलुकि उत्तरपदककर्मधारये च निरुक्ताकाङ्क्षाज्ञानस्थाऽप्रवृ. त्या कथमन्वयश्चेति चेन्न ? एकेनाकांक्षाज्ञानेन न सर्वत्र शाब्दबोधोऽपि तु तत्र तत्र उक्तेषु वाक्येषु व्यभिचारवारणाय विलक्षणाकांक्षाया अन्याश्या एव स्वीकारेण दोषपरिहारात् । नच नीलो घट इत्यत्रैव सुपदे ङस्त्वनमे डरत्वप्रकारकान्यदीयं भ्रममा. दायाऽपि वाऽभ्रान्तस्याऽपि पुरुषस्य शाब्दबोधो न स्यात् । किञ्च नीलस्य घट इत्यत्रैव सि प्रत्यये सुत्वप्रकारकान्यदीयभ्रममादायाभ्रान्तस्य पुरुषस्याऽनिष्टोऽपि शाब्दबोध