________________
व्युत्पत्तिवादः। अथ विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्य विवक्षणान्न दोष इति चेतर्हि?
विभक्तित्वादिकमजानतः पुरुषस्य ताहशधर्मज्ञानासम्भवाच्छाब्दबोधानुपपत्तिः ।
विशेष्यवाचकपदं घटपदं तदप्रकृतिका विभक्तिद्धितीयादिविभक्तिस्तदप्रकृतित्वन्नीलपदे इति विरुद्धविभक्तिराहित्यमेव । समासन्याससाधारणनीलादिप्रकारकाऽभेदसंसर्गकघटविशेष्यकान्वयबोधननिकाकाङ्क्षा । तथा च नीलस्य घट इत्यादौ विशेष्यवाचकघटपदाऽप्रकृतिका विभक्तिः षष्ठीविभक्तिस्तत्प्रकृतित्वमेव नीलपदेऽतो न नीलस्य घट इति वाक्यान्नीलप्रकारकघटविशेष्यकशाब्दबोधः । विशेष्यवाचकपदोतरावृत्तिविभक्तीति
समासव्याससाधारण्येन नीलो घटः नीलघट इत्यादौ विशेष्यवाचकपदं घटपदन्तदुत्तरा सुविभक्तिस्तदवृत्तिविभक्ति विभाजकधर्मों द्वितीयात्वादिस्तद्धर्मवत्योऽमादिविभक्तयस्तद्राहित्यमुभयत्र वर्तते इति साकाङ्क्षत्वम् । नच प्रकृतोदाहरणे विशेष्यवाचक घटपदन्तदुत्तरत्वन्तु घट घटेन घटात् घटस्येत्यादौ सर्वविभक्तीनान्तन्निरूपितवृत्तित्वमेव विभक्ति विभाजकद्वितीयादीनामती विशेष्यवाचकपदोत्तराऽवृत्तिविभक्तिविभाजकधर्माsप्रसिद्धिः । विभक्तित्वस्य सुप्तिङ साधारणत्वेन सुत्वादीनां विभक्तिविभाजकत्वाऽप्रसि. द्धिश्च, प्रतिवाक्यं विशिष्यतात्पर्यानुरोधेनाकाङ्क्षा कल्प्यते चेत्तर्हि “प्रत्युच्चारणं शब्दो भिद्यत" इतिसिद्धान्तेनाननुगतत्वप्रसङ्ग आकासानन्त्यापत्तिश्चेति कथं ग्रन्थसङ्गातरिति विशेषप्रश्नः १ नीलादिविशेषणपदे घटादिविशेष्यपदवत्त्वमाकाङ्क्षति तात्पर्यात् । घयदिविशेष्यपदवत्त्वञ्च केन सम्बन्धेनेति चेत् स्वाऽभाववत्त्वसम्बन्धेनेति । अत्राऽभावश्च किंसम्बन्धावच्छिन्नप्रतियोगिताको ग्राह्य इति चेत् १ स्वोत्तराऽवृत्तिविभक्तिविभाजकधर्मवद्विभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्तथाच यद्धटपदवत्त्वन्नीलेऽभिप्रेतन्तद्धटपदव्यक्त्युरपविभक्तेरेव सम्बन्धघटकत्वेनान्यघटव्यक्तिमादाय दोषस्याननुसृतत्वात् । एवञ्च नाऽप्रसिद्धि प्यननुगतत्वं स्वशब्देनेष्टधारणात् । विभक्तित्वादिकमजानत इति--- ___यस्य 'विभक्तिश्चे"तिसूत्रज्ञानन्नास्ति तस्यापि शाब्दबोधो भवति स न स्यात् । स्वोत्तराऽवृत्तिधर्मवदिति तु न योग्यं नीलो घट इत्यादौ नीलपदोत्तरविभक्तिगततव्यक्तित्वस्य घटपदोत्तरविभक्तावसत्त्वेनाकाङ्क्षानापत्तेः । नच विशेष्यवाचकपदोत्तराऽवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्म इत्येवोच्यतान्तद्व्यक्तित्वस्य श्रावणप्रत्यक्षविषयतावच्छेदकत्वाऽभावेन तदादाय दोषाऽभाव इति वाच्यम् ? नीलो घट इत्यत्र विशेष्यवाचकघटपदोत्तरं विसर्गस्तदवृत्तिद्धर्म उत्वगुणनिष्पन्नमोत्वन्तस्य नीलपदोत्तरविभक्तित्तित्वेन निराकाक्षत्वापत्तेधौव्यतरत्वाच्छाब्दबोधानापत्तेः। अत एव विभक्तित्वा