________________
शास्त्रार्थकलोपस्कृतः
६९ __ यत्तु समासव्याससाधारणं विशेषणपदस्य विशेष्यवाचकपदाप्रकृतिकविभक्तथप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमेव तादृशान्वयबोधौपधिकाकाङ क्षा। विशेष्यवाचकपदनिष्ठविशेषणवाचकपदाप्रकृतिकविभक्तथा प्रकृतित्वं च न तथा, नालघटमानयेत्यादावसम्भवादिति । तदसत् । विशे. व्यवाचकपदाप्रकृतिकत्वस्य ताशपदानुत्तरत्वस्य तदुत्तरत्वेनापति. सन्धीयमानत्वरूपम्य वा नीलो घट इत्यादौ नोलादिपदसमभिव्याहृतविभक्तौ घटपदसमभिव्याहृतविभक्तिभिन्नतया सत्त्वात् । निरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वनिष्ठावच्छेदकताकमन्यतानिरूपितजनकतावदाकाङ्क्षाज्ञानम्पृथगेवैतादृशाकाङ्क्षाज्ञानस्यैकजन्यतावच्छेदककत्वेन योग्यताज्ञानादिसहकारित्वस्यावश्यकतया तदभावान्नीलस्य घट इत्यादी नाऽमेदान्वयवोध इति ।
किञ्च स्वन्तनीलपदसमभिव्याहतस्वन्तघटपदस्वरूपाकांक्षाज्ञानेतरावन्तनीलपदसमभिव्याहतावन्तघटपदत्वादिरूपाकाङ्क्षाज्ञानानुत्तराऽभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाग्दबोधम्प्रति स्वन्तनीलपदसमभिव्याहतस्वन्तघटपदत्वरूपाकाङ्क्षाशानङ्कारणम् इत्यादिकार्यकारणभावेन नीलस्य घट इत्यादावदोष इति । वस्तुतस्तु____ तद्विषयकप्रवृत्तिम्प्रति तद्विषयकेष्टतावच्छेदकावच्छिन्नसाधनताज्ञानं कारणमितिनियमः । इदम्मदिष्टसाधनम् इदम्मत्कृतिसाध्यम् बलवदनिष्टाननुवन्धित्वविशिष्टेष्टसाधनमिति न कलञ्जम्भक्षयेत् इत्यादि । अत्र नीलघटान्वयबुद्धिरभेदसंसर्गेणेष्टा । नीलघटान्वयबुद्धित्वावच्छिन्नविशेष्यकेष्टत्वप्रकारज्ञाने सति अभेदसंसर्गकनीलत्वावच्छिन्नप्रकारकघटत्वावच्छिन्नविशेष्यकबुद्धित्वावच्छिन्ननिरूपितसाधनताज्ञानसत्त्वान्नीलो घट इतवाक्यप्रयोगः ! यदि कार्यतावच्छेदककोटौ विषयत्वप्रवेशो न स्यात्तर्हि अभेदसंसर्गकनोलत्वावच्छिन्नप्रकारकघटत्वावच्छिन्नविशेष्यकशाब्दबोधत्वावच्छिन्नबनकन्नीलो घट इतिवाक्यमेतादृशेष्टतावच्छेदकावच्छिन्ननिरूपितसाधनत्वज्ञानाऽभावात्प्रवृत्तिम्प्रति तस्यैव कारणत्वादभेदसंसर्गकनीलप्रकारकघट इतिवाक्यन्न प्रयोक्तव्यमित्यस्याऽपि वक्तुं शक्यत्वेनाऽभेदसंसर्गकनीलप्रकारकवटविशेष्यकशाब्दबोधो न स्यादतो विषयत्वप्रवेश आवश्यक इति सिंहावलोकितम् । यत्तु समासव्याससाधारणमिति. अयम्भावः, मूलोक्तरीत्या विशेष्यवाचकम्पदं घटपदन्तदप्रकृतिका विभक्तिद्धिती. यादिविभक्तिस्तदप्रकृतित्वं विशेषणवाचकनीलेऽस्ति । नीलघट इति समस्तवाक्येऽपि
प्रवृत्तिश्च द्विविधा भवति संवादिनी (सफला) विसंवादिनी (निष्फला) भेदात् । प्रवृत्तौ च इष्टसाधनत्वप्रकारकं कृतिसाध्यत्वप्रकारकं बलवदनिष्टाजनकत्वप्रकारकशानञ्च कारणम् भवति । अत एव क्रमेण जलताइने सुमेरुशृङ्गाहरणेऽतिक्षुधितेऽपि मधुविषसम्पृक्तानमोजने च न प्रवृत्तिः।