________________
६८
व्युत्पत्तिवादः ।
हान्नापत्तिः । कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशान्नोक्ताकाङ्क्षाज्ञानयोः परस्परबोधे व्यभिचारः ।
भूतलमितिसमूहालम्बनाकाङ्क्षाज्ञानाज्जायमानशाब्दबोधे व्यभिचारवारणाय विषयनिवेशस्यावश्यकत्वात् । नचाऽप्रामाण्यज्ञानानास्कन्दिततत्तदाकाङक्षाज्ञानाव्यवहितोत्तरजायमानशाब्दबोधम्प्रति अप्रामाण्यज्ञानानास्कन्दिततत्तदाकाङ क्षाज्ञानङ्कारणमस्तु तावताऽप्युक्तस्थले कार्यकारणयोरसवेन न व्यभिचारशङ्काऽपीति किं विषयत्वनिवेशेनेति वाच्यम् ? कार्यतावच्छेदककोटावप्रामाण्यज्ञानानास्कन्दितत्वनिवेशाऽपेक्षया विषयनिवेशे सद्धर्मसद्विषयनिवेशस्य युक्तत्वात् । ननु विषयनिवेशस्य सवेऽपि नीलो घटश्श्यामो घट इति समूहालम्बनोत्तरं यत्र नीलो घट इत्यंशेऽप्रामाण्यज्ञानं तत्राऽप्यभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्दबोधस्य सद्धर्मसिद्धतया निरुक्तकारणस्याऽसत्त्वेन व्यभिचारादर्शनात्तद्वारणाय कार्यतावच्छेदककोदावपि अप्रामाण्यज्ञानानास्कन्दि तत्वविशेषणमावश्यकम् । तथा सति कार्यकारणयोरुभयोरसत्त्वेनाऽव्यभिचार इति विषयनिवेशात्पूर्वमेवाप्रामाण्यज्ञानानास्कन्दितविशेषणङ्कार्यदलेऽपि निवेश्यतान्तावताऽपि वारणसम्भवेन किं विषयत्वनिवेशेनेति चेदिष्टापत्तेः । अत एव ग्रन्थकारेणाव्यवहितोत्तरनिवेशानन्तरमपि विषयन्निवेश्य कार्यकारणभावो न दर्शित इति । वस्तुतस्तु
अव्यवहितोत्तरप्रवेशपूर्वकस्वन्त्तनीलपदसमभिव्याहुतघटपदत्वरूपाकाङ्क्षाज्ञानाव्य
वहितोत्तरजायमानाऽभेदसंसर्गकनीलप्रकारकघट विशेष्यकशाब्दबुद्धित्वावच्छिन्नम्प्रति स्वन्तमीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपाकाङ्क्षाज्ञानङ्कारणम् । एवमेव ङसन्तनीलपदसमभिव्याहृतघटप दत्वरूपाकांक्षाज्ञानाऽव्यवहितोत्तरजायमानशाब्दबोधम्प्रति ङसन्तनीलपदसमभिव्याहृतङसन्तघटपदत्वरूपाकाङ क्षाज्ञानङ्कारणम् । कार्यदलीयविशेष्यवाचकपदे विभक्तेर्न निवेशः किन्तु विभक्त्यनिवेशपूर्व काव्यवहितोत्तरत्वनिवेशतात्पर्येण न नीलस्य घट इत्यादावभेदसंसर्गकबोधः । स्वार्थिककप्रत्ययान्तघटितनीलस्य घटकस्येत्यादौ शुद्धघटपदत्यरूपाकाङ्क्षाज्ञानाऽभावेन शाब्दबोधानापत्तावपि प्रत्ययात्पूर्वतात्पर्यमनुरुध्य तत्राऽदोषात् ।
किश्ञ्च शुद्धाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्न प्रकारतानिरूपित घटत्वावच्छिन्नविअभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारता
शेष्यताकशाब्दबुद्धित्वावच्छिन्नम्प्रति
व्यभिचारस्तु — द्विविधः अन्वयव्यभिचारों व्यतिरेकव्यभिचारश्च । तत्र कारणसत्वे कार्यसत्वमन्वयः कारणाभावे कार्याभावो व्यतिरेकः । कारणसत्वे कार्याभावोऽन्वयव्यभिचारः । कारणाभावे कार्यसत्वम् ( कार्योत्पादः ) व्यतिरेकव्यभिचारः ।
व्यभिचारशङ्का चेद्द कार्ये कारणव्यभिचारि नवेत्येव सम्भवति ।